दृष्ट्वा तां विस्मिताः सर्वे वयं तत्र स्थिताऽभवन् । केयं कान्ता च किं नाम न जानीमोऽत्र संस्थिताः
सहस्रनयना रामा सहस्रकरसंयुता । सहस्रवदना रम्या भाति दूरादसंशयम्
नाप्सरा नापि गन्धर्वी नेयं देवाङ्गना किल । इति संशयमापन्नास्तत्र नारद संस्थिताः
तदाऽसौ भगवान्विष्णुर्दृष्ट्वा तां चारुहासिनीम् । उवाचाम्बां स्वविज्ञानात्कृत्वा मनसि निश्चयम्
एषा भगवती देवी सर्वेषां कारणं हि नः । महाविद्या महामाया पूर्णा प्रकृतिरव्यया
दुर्ज्ञेयाऽल्पधियां देवी योगगम्या दुराशया । इच्छा परात्मनः कामं नित्यानित्यस्वरूपिणी
दुराराध्याऽल्पभाग्यैश्च देवी विश्वेश्वरी शिवा । वेदगर्भा विशालाक्षी सर्वेषामादिरीश्वरी
एषा संहृत्य सकलं विश्वं क्रीडति संक्षये । लिङ्गानि सर्वजीवानां स्वशरीरे निवेश्य च
सर्वबीजमयी ह्येषा राजते साम्प्रतं सुरौ । विभूतयः स्थिताः पार्श्वे पश्यतां कोटिशः क्रमात्
दिव्याभरणभूषाढ्या दिव्यगन्धानुलेपनाः । परिचर्यापराः सर्वाः पश्यतां ब्रह्मशङ्करौ
धन्या वयं महाभागाः कृतकृत्याः स्म साम्प्रतम् । यदत्र दर्शनं प्राप्तं भगवत्याः स्वयं त्विदम्
तपस्तप्तं पुरा यत्नात्तस्येदं फलमुत्तमम् । अन्यथा दर्शनं कुत्र भवेदस्माकमादरात्
पश्यन्ति पुण्यपुञ्जा ये ये वदान्यास्तपस्विनः । रागिणो नैव पश्यन्ति देवीं भगवतीं शिवाम्
मूलप्रकृतिरेवैषा सदा पुरुषसङ्गता । ब्रह्माण्डं दर्शयत्येषा कृत्वा वै परमात्मने
द्रष्टाऽसौ दृश्यमखिलं ब्रह्माण्डं देवताः सुरौ । तस्यैषा कारणं सर्वा माया सर्वेश्वरी शिवा
क्वाहं वा क्व सुराः सर्वे रम्भाद्याः सुरयोषितः । लक्षांशेन तुलामस्या न भवामः कथञ्चन
सैषा वराङ्गना नाम या वै दृष्टा महार्णवे । बालभावे महादेवी दोलयन्तीव मां मुदा
शयनं वटपत्रे च पर्यङ्के सुस्थिरे दृढे । पादाङ्गुष्ठं करे कृत्वा निवेश्य मुखपङ्कजे
लेलिहन्तञ्च क्रीडन्तमनेकैबालचेष्टितैः । रममाणं कोमलाङ्गं वटपत्रपुटे स्थितम्
गायन्ती दोलयन्ती च बालभावान्मयि स्थिते । सेयं सुनिश्चितं ज्ञातं जातं मे दर्शनादिव
कामं नो जननी सैषा शृणु तं प्रवदाम्यहम् । अनुभूतं मया पूर्वं प्रत्यभिज्ञा समुत्थिता
विष्णुना कृतं देवीस्तोत्रम् ब्रह्मोवाच इत्युक्त्वा भगवान्विष्णुः पुनराह जनार्दनः । वयं गच्छेम पार्श्वेऽस्याः प्रणमन्तः पुनः पुनः
सेयं वरा महामाया दास्यत्येषा वरान् हि नः । स्तुवामः सन्निधिं प्राप्य निर्भयाश्चरणान्तिके
यदि नो वारयिष्यन्ति द्वारस्थाः परिचारकाः । पठिष्यामश्च तत्रस्थाः स्तुतिं देव्याः समाहिताः
ब्रह्मोवाच इत्युक्ते हरिणा वाक्ये सुप्रहृष्टौ सुसंस्थितौ । जातौ प्रमुदितौ कामं निकटे गमनाय च
ओमित्युक्त्वा हरिं सर्वे विमानात्त्वरितास्त्रयः । उत्तीर्य निर्गता द्वारि शङ्कमाना मनस्यलम्
द्वारस्थान् वीक्ष्य तान्सर्वान्देवी भगवती तदा । स्मितं कृत्वा चकाराशु तांस्त्रीन्स्त्रीरूपधारिणः
वयं युवतयो जाताः सुरूपाश्चारुभूषणाः । विस्मयै परमं प्राप्ता गतास्तत्सन्निधिं पुनः
सा दृष्ट्वा नः स्थितांस्तत्र स्त्रीरूपांश्चरणान्तिके । व्यलोकयत चार्वङ्गी प्रेमसम्पूर्णया दृशा
प्रणम्य तां महादेवीं पुरतः संस्थिता वयम् । परस्परं लोकयन्तः स्त्रीरूपाश्चारुभूषणाः