विसिष्मिये तदा विष्णुर्दृष्ट्वा तत्पुरमुत्तमम् । सदनाग्रे ययौ तावद्धरिः कमललोचनः
अतसीकुसुमाभासः पीतवासाश्चतुर्भुजः । द्विजराजाधिरूढश्च दिव्याभरणभूषितः
वीज्यमानस्तदा लक्ष्म्या कामिन्या चामरैः शुभैः । तं वीक्ष्य विस्मिताः सर्वे वयं विष्णुं सनातनम्
परस्परं निरीक्षन्तः स्थितास्तस्मिन् वरासने । ततश्चचाल तरसा विमानं वातरंहसा
सुधासमुद्रः सम्प्राप्तौ मिष्टवारिमहोर्मिमान् । यादोगणसमाकीर्णश्चलद्वीचिविराजितः
मन्दारपारिजाताद्यैः पादपैरतिशोभितः । नानास्तरणसंयुक्तो नानाचित्रविचित्रितः
मुक्तादामपरिक्लिष्टो नानादामविराजितः । अशोकबकुलाख्यैश्च वृक्षैः कुरुबकादिभिः
संवृतः सर्वतः सौम्यैः केतकीचम्पकैर्वृतः । कोकिलारावसङ्घुष्टो दिव्यगन्धसमन्वितः
द्विरेफातिरणत्कारैरञ्जितः परमाद्भुतः । तस्मिन्द्वीपे शिवाकारः पर्यङ्कः सुमनोहरः
रत्नालिखचितोऽत्यर्थं नानारत्नविराजितः । दृष्टोऽस्माभिर्विमानस्थैर्दूरतः परिमण्डितः
नानास्तरणसंछन्न इन्द्रचापसमन्वितः । पर्यङ्कप्रवरे तस्मिन्नुपविष्टा वराङ्गना
रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना । सुरक्तनयना कान्ता विद्युत्कोटिसमप्रभा
सुचारुवदना रक्तदन्तच्छदविराजिता । रमाकोट्यधिका कान्त्या सूर्यबिम्बनिभाखिला
वरपाशाङ्कुशाभीष्टधरा श्रीभुवनेश्वरी । अदृष्टपूर्वा दृष्टा सा सुन्दरी स्मितभूषणा
ह्रीङ्कारजपनिष्ठैस्तु पक्षिवृन्दैर्निषेविता । अरुणा करुणामूर्तिः कुमारी नवयौवना
सर्वशृङ्गारवेषाढ्या मन्दस्मितमुखाम्बुजा । उद्यत्पीनकुचद्वन्द्वनिर्जिताम्भोजकुड्मला
नानामणिगणाकीर्णभूषणैरुपशोभिता । कनकाङ्गदकेयूरकिरीटपरिशोभिता
कनकच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा । हृल्लेखा भुवनेशीति नामजापपरायणैः
सखीवृन्दैः स्तुता नित्यं भुवनेशी महेश्वरी । हृल्लेखाद्याभिरमरकन्याभिः परिवेष्टिता
अनङ्गकुसुमाद्याभिर्देवीभिः परिवेष्टिता । देवी षट्कोणमध्यस्था यन्त्रराजोपरि स्थिता
दृष्ट्वा तां विस्मिताः सर्वे वयं तत्र स्थिताऽभवन् । केयं कान्ता च किं नाम न जानीमोऽत्र संस्थिताः
सहस्रनयना रामा सहस्रकरसंयुता । सहस्रवदना रम्या भाति दूरादसंशयम्
नाप्सरा नापि गन्धर्वी नेयं देवाङ्गना किल । इति संशयमापन्नास्तत्र नारद संस्थिताः
तदाऽसौ भगवान्विष्णुर्दृष्ट्वा तां चारुहासिनीम् । उवाचाम्बां स्वविज्ञानात्कृत्वा मनसि निश्चयम्
एषा भगवती देवी सर्वेषां कारणं हि नः । महाविद्या महामाया पूर्णा प्रकृतिरव्यया
दुर्ज्ञेयाऽल्पधियां देवी योगगम्या दुराशया । इच्छा परात्मनः कामं नित्यानित्यस्वरूपिणी
दुराराध्याऽल्पभाग्यैश्च देवी विश्वेश्वरी शिवा । वेदगर्भा विशालाक्षी सर्वेषामादिरीश्वरी
एषा संहृत्य सकलं विश्वं क्रीडति संक्षये । लिङ्गानि सर्वजीवानां स्वशरीरे निवेश्य च
सर्वबीजमयी ह्येषा राजते साम्प्रतं सुरौ । विभूतयः स्थिताः पार्श्वे पश्यतां कोटिशः क्रमात्
दिव्याभरणभूषाढ्या दिव्यगन्धानुलेपनाः । परिचर्यापराः सर्वाः पश्यतां ब्रह्मशङ्करौ