कथास्थानं प्रकर्त्तव्यं भूमौ मार्जनपूर्वकम् । लेपनं गोमयेनाथ विशालायां मनोरमम्
कार्यस्तु मण्डपो रम्यो रंभास्तंभोपशोभितः । वितानमुपरिष्ठात्तु पताकाध्वज राजितः
वक्तुश्चैवासनं दिव्यं सुखास्तरणसंयुतम् । रचितव्यं प्रयत्नेन प्राङ्मुखं वाप्युदङ्मुखम्
यथोचितानि कुर्वीत श्रोतॄणामासनानि च । नृणां चैवाथ नारीणां कथाश्रवणहेतवे
वाग्मी दांतश्च शास्त्रज्ञो देव्याराधनतत्परः । दयालुनिस्पृहो दक्षो धीरो वक्तोत्तमो मतः
ब्रह्मण्यो देवताभक्तः कथारसपरायणः । उदारोऽलोलुपो नम्रः श्रोता हिंसादिवर्जितः
पाखण्डनिरतो लुब्धः स्त्रैणो धर्मध्वजस्तथा । निष्ठुरः क्रोधनो वक्ता देवीयज्ञे न शस्यते
संशयच्छेदनायैक: पण्डितश्च तथागुणः । श्रोतृबोधकृदव्यग्रः कार्य्यो वक्तुः सहायकृत्
मुहूर्तं दिवसादर्वाग्वक्तृश्रोतादिभिर्जनैः । कर्त्तव्यं क्षौरकर्मादि ततो नियमकल्पनम्
अरुणोदयवेलायां स्नायाच्छौचं विधाय च । संध्या तर्पणकार्यं च नित्यं संक्षेपतश्चरेत्
कथाश्रवणयोग्यत्वसिद्धये गाश्च दापयेत् । समस्तविघ्नहर्तारमादौ गणपतिं यजेत्
कलशांश्चापि संस्थाप्य पूजयेत्तत्र दिग्भवान् । वटुकं क्षेत्रपालं च योगिनीर्मातृकास्तथा
तुलसीं चापि संपूज्य ग्रहान्विष्णुं च शंकरम् । नवाक्षरेण मनुना पूजयेज्जगदम्बिकाम्
सर्वोपचारैः संपूज्य श्रीभागवतपुस्तकम् । श्रीदेव्या वाङ्मयीं मूर्तिं यथावच्छोभनाक्षरम्
कथाविघ्नोपशांत्यर्थं वृणुयात्तं च वाडवान् । जाप्यो नवार्णमंत्रस्तैः पाठ्यः सप्तशतीस्तवः
प्रदक्षिणनमस्कारान्कृत्वांते स्तुतिमाचरेत् । कात्यायनि महामाये भवानि भुवनेश्वरि
संसारसागरे मग्नं मामुद्धर कृपामये । ब्रह्मविष्णुशिवाराध्ये प्रसीद जगदंबिके
मनोभिलषितं देवि वरं देहि नमोऽस्तु ते । इति संप्रार्थ्य शृणुयात्कथां नियतमानसः
वक्तारं चापि संपूज्य व्यासबुद्ध्या तदात्मवान् । माल्यालंकारवस्त्राद्यैः संभूष्य' प्रार्थयेच्च तम्
सर्वशास्त्रेतिहासज्ञ व्यासरूप नमोऽस्तु ते । कथाचंद्रोदयेनांतस्तमःस्तोमं निराकुरु ॥ ३५ तदग्रे तु नवाहान्तं कर्त्तव्या नियमास्तदा । विप्रादीनुपवेश्यादौ संपूज्योपविशेत्स्वयम्
श्रोतव्यं सावधानेन चतुर्वर्गफलाप्तये । गृहपुत्रकलत्राप्तघनचिन्तामपास्य च
सूर्योदयं समारभ्य किंचित्सूर्येऽवशेषिते । मुहूर्तमात्रं विश्रम्य मध्याह्ने वाचयेत्सुधीः
मलमूत्रजयायैषां लघु भोजनमिष्यते । हविष्यान्नं वरं भोज्यं सकृदेव कथार्थिना
अथवा स्यात्फलाहारी पयोभुग्वा घृताशनः । यथा स्यान्न कथाविघ्नस्तथा कार्यं विचक्षणैः
कथाश्रवणनिष्ठानां वक्ष्यामि नियमं द्विजाः । ब्रह्मविष्णुमहेशानां मध्ये ये भेददर्शिनः
देवीभक्तिविहीना ये पाखण्डा हिंसकाः खलाः । विप्रद्रुहो नास्तिका ये न ते योग्याः कथाश्रवे
ब्रह्मस्वहरणे लुब्धाः परदारधनेषु च । देवस्वहरणे तेषां नाधिकारः कथाश्रवे
ब्रह्मचारी च भूशायी सत्यवक्ता जितेन्द्रियः । कथासमाप्तौ भुंजीत पत्रावल्यां यतात्मवान्
वृंतांकं च कलिन्दं च तैलं च द्विदलं मधु । दग्धमन्नं पर्युषितं भावदुष्टं त्यजेद्व्रती
आमिषं च मसूरान्नमुदक्या दृष्टमेव च । रसोनं मूलकं हिंगुं पलांडुं गृञ्जनं तथा