क्षणाच्चचाल गगने विमानं पवनेरितम् । मुहूर्ताद्वा ततः प्राप्तं देशे चान्ये मनोहरे
नन्दनं च वनं तत्र दृष्टमस्माभिरुत्तमम् । पारिजाततरुच्छायासंश्रिता सुरभिः स्थिता
चतुर्दन्तो गजस्तस्याः समीपे समवस्थितः । अप्सरसां तत्र वृन्दानि मेनकाप्रभृतीनि च
क्रीडन्ति विविधैर्भावैर्गाननृत्यसमन्वितैः । गन्धर्वाः शतशस्तत्र यक्षा विद्याधरास्तथा
मन्दारवाटिकामध्ये गायन्ति च रमन्ति च दृष्टः शतक्रतुस्तत्र पौलोम्या सहितः प्रभुः
वयं तु विस्मिताश्चास्म दृष्ट्वा त्रैविष्टपं तदा । यादःपतिं कुबेरं च यमं सूर्यं विभावसुम्
विलोक्य विस्मिताश्चास्म वयं तत्र सुरान्स्थितान् । तदा विनिर्गतो राजा पुरात्तस्मात्सुमण्डितात्
देवराज इवाक्षोभ्यो नरवाह्यावनौ स्थितः । विमानस्था वयं तच्च चचाल तरसागतम्
ब्रह्मलोकं तदा दिव्यं सर्वदेवनमस्कृतम् । तत्र ब्रह्माणमालोक्य विस्मितौ हरकेशवौ
सभायां तत्र वेदाश्च सर्वे साङ्गाः स्वरूपिणः । सागराः सरितश्चैव पर्वताः पन्नगोरगाः
मामूचतुश्चतुर्वक्त्रः कोऽयं ब्रह्मा सनातनः । ताववोचमहं नैव जाने सृष्टिपतिं पतिम्
कोऽहं कोऽयं किमर्थं वा भ्रमोऽयं मम चेश्वरौ । क्षणादथ विमानं तच्चचालाशु मनोजवम्
कैलासशिखरे प्राप्तं रम्ये यक्षगणान्विते । मन्दारवाटिकारम्ये कीरकोकिलकूजिते
वीणामुरजवाद्यैश्च नादिते सुखदे शिवे । यदा प्राप्तं विमानं तत्तदैव सदनाच्छुभात्
निर्गतो भगवाञ्छम्भुर्वृषारूढस्त्रिलोचनः । पञ्चाननो दशभुजः कृतसोमार्धशेखरः
व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः । पार्ष्णिरक्षौ महावीरौ गजाननषडाननौ
शिवेन सह पुत्रौ द्वौ व्रजमानौ विरेजतुः । नन्दिप्रभृतयः सर्वे गणपाश्च वराश्च ते
जयशब्दं प्रयुञ्जाना व्रजन्ति शिवपृष्ठगाः । तं वीक्ष्य शङ्करं चान्यं विस्मितास्तत्र नारद
मातृभिः संशयाविष्टस्तत्राहं न्यवसं मुने । क्षणात्तस्माद्गिरेः शृङ्गाद्विमानं वातरंहसा
वैकुण्ठसदनं प्राप्तं रमारमणमन्दिरम् । असम्भाव्या विभूतिश्च तत्र दृष्टा मया सुत
विसिष्मिये तदा विष्णुर्दृष्ट्वा तत्पुरमुत्तमम् । सदनाग्रे ययौ तावद्धरिः कमललोचनः
अतसीकुसुमाभासः पीतवासाश्चतुर्भुजः । द्विजराजाधिरूढश्च दिव्याभरणभूषितः
वीज्यमानस्तदा लक्ष्म्या कामिन्या चामरैः शुभैः । तं वीक्ष्य विस्मिताः सर्वे वयं विष्णुं सनातनम्
परस्परं निरीक्षन्तः स्थितास्तस्मिन् वरासने । ततश्चचाल तरसा विमानं वातरंहसा
सुधासमुद्रः सम्प्राप्तौ मिष्टवारिमहोर्मिमान् । यादोगणसमाकीर्णश्चलद्वीचिविराजितः
मन्दारपारिजाताद्यैः पादपैरतिशोभितः । नानास्तरणसंयुक्तो नानाचित्रविचित्रितः
मुक्तादामपरिक्लिष्टो नानादामविराजितः । अशोकबकुलाख्यैश्च वृक्षैः कुरुबकादिभिः
संवृतः सर्वतः सौम्यैः केतकीचम्पकैर्वृतः । कोकिलारावसङ्घुष्टो दिव्यगन्धसमन्वितः
द्विरेफातिरणत्कारैरञ्जितः परमाद्भुतः । तस्मिन्द्वीपे शिवाकारः पर्यङ्कः सुमनोहरः
रत्नालिखचितोऽत्यर्थं नानारत्नविराजितः । दृष्टोऽस्माभिर्विमानस्थैर्दूरतः परिमण्डितः