विष्णोर्देहं विहायाशु विरराज नभःस्थिता । उदतिष्ठदमेयात्मा तया मुक्तो जनार्दनः
पंचवर्षसहस्राणि कृतवान् युद्धमुत्तमम् । तदा विलोकितौ दैत्यौ हरिणा विनिपातितौ
उत्सङ्गं विमलं कृत्वा तत्रैव निहतौ च तौ । रुद्रस्तत्रैव सम्प्राप्तो यत्रावां संस्थितावुभौ
त्रिभिः संवीक्षितास्मामिः स्वस्था देवी मनोहरा । संस्तुता परमा शक्तिरुवाचास्मानवस्थितान्
कृपावलोकनैः कृत्वा पावनैर्मुदितानथ । देव्युवाच काजेशाः स्वानि कार्याणि कुरुध्वं समतन्द्रिताः
सृष्टिस्थितिविशिष्टानि हतावेतौ महासुरौ । कृत्वा स्वानि निकेतानि वसध्वं विगतज्वराः
प्रजाश्चतुर्विधाः सर्वाः सृजध्वं स्वविभूतिभिः । ब्रह्मोवाच तच्छ्रुत्वा वचनं तस्याः पेशलं सुखदं मृदु
अब्रूम तामशक्तिः स्मः कथं कुर्मस्त्विमाः प्रजाः । न मही वितता मातः सर्वत्र विततं जलम्
न भूतानि गुणाश्चापि तन्मात्राणीन्द्रियाणि च । तदाकर्ण्य वचोऽस्माकं शिवा जाता स्मितानना
झटित्येवागतं तत्र विमानं गगनाच्छुभम् । सोवाचास्मिन्सुराः कामं विशध्वं गतसाध्वसाः
विमाने ब्रह्मविष्ण्वीशा दर्शयाम्यद्य चाद्भुतम् । तन्निशम्य वचस्तस्या ओमित्युक्त्वा पुनर्वयम्
समारुह्योपविष्टाः स्मो विमाने रत्नमण्डिते । मुक्तादामसुसंवीते किङ्किणीजालशब्दिते
सुरसद्मनिभे रम्ये त्रयस्तत्राविशङ्किताः । सोपविष्टांस्ततो दृष्ट्वा देव्यस्मान्विजितेन्द्रियान्
स्वशक्त्या तद्विमानं वै नोदयामास चाम्बरे
विमानस्थैर्हरादिभिर्देवीदर्शनम् ब्रह्मोवाच विमानं तन्मनोवेगं यत्र स्थानान्तरे गतम् । न जलं तत्र पश्यामो विस्मिताः स्मो वयं तदा
वृक्षाः सर्वफला रम्याः कोकिलारावमण्डिताः । मही महीधराः कामं वनान्युपवनानि च
नार्यश्च पुरुषाश्चैव पशवश्च सरिद्वराः । वाप्यः कूपास्तडागाश्च पल्वलानि च निर्झराः
पुरतो नगरं रम्यं दिव्यप्राकारमण्डितम् । यज्ञशालासमायुक्तं नानाहर्म्यविराजितम्
प्रत्यभिज्ञा तदा जाताप्यस्माकं प्रेक्ष्य तत्पुरम् । स्वर्गोऽयमिति केनासौ निर्मितोस्ति तदाद्भुतम्
राजानं देवसङ्काशं व्रजन्तं मृगयां वने । अस्माभिः संस्थिता दृष्टा विमानोपरि चाम्बिका
क्षणाच्चचाल गगने विमानं पवनेरितम् । मुहूर्ताद्वा ततः प्राप्तं देशे चान्ये मनोहरे
नन्दनं च वनं तत्र दृष्टमस्माभिरुत्तमम् । पारिजाततरुच्छायासंश्रिता सुरभिः स्थिता
चतुर्दन्तो गजस्तस्याः समीपे समवस्थितः । अप्सरसां तत्र वृन्दानि मेनकाप्रभृतीनि च
क्रीडन्ति विविधैर्भावैर्गाननृत्यसमन्वितैः । गन्धर्वाः शतशस्तत्र यक्षा विद्याधरास्तथा
मन्दारवाटिकामध्ये गायन्ति च रमन्ति च दृष्टः शतक्रतुस्तत्र पौलोम्या सहितः प्रभुः
वयं तु विस्मिताश्चास्म दृष्ट्वा त्रैविष्टपं तदा । यादःपतिं कुबेरं च यमं सूर्यं विभावसुम्
विलोक्य विस्मिताश्चास्म वयं तत्र सुरान्स्थितान् । तदा विनिर्गतो राजा पुरात्तस्मात्सुमण्डितात्
देवराज इवाक्षोभ्यो नरवाह्यावनौ स्थितः । विमानस्था वयं तच्च चचाल तरसागतम्
ब्रह्मलोकं तदा दिव्यं सर्वदेवनमस्कृतम् । तत्र ब्रह्माणमालोक्य विस्मितौ हरकेशवौ
सभायां तत्र वेदाश्च सर्वे साङ्गाः स्वरूपिणः । सागराः सरितश्चैव पर्वताः पन्नगोरगाः