दुःखं बहुविधं प्राप्तास्तत्र धर्मस्य का स्थितिः । अतो मे हृदयं तात वेपतेऽतीव संशये
कुरु मेऽसंशयं चेतः समर्थोऽसि महामुने । त्राहि संसारवार्धेस्त्वं ज्ञानपोतेन मां मुने
मज्जन्तं चोत्पतन्तं च मग्नं मोहजलाविले
ब्रह्मादीनाङ्गतिवर्णनम् व्यास उवाच यत्त्वया च महाबाहो पृष्टोऽहं कुरुसत्तम । तान्प्रश्नान्नारदः प्राह मया पृष्टो मुनीश्वरः
नारद उवाच व्यास किं ते ब्रवीम्यद्य पुराऽयं संशयो मम । उत्पन्नो हृदयेऽत्यर्थं संदेहासारपीडितः
गत्वाऽहं पितरं स्थाने ब्रह्माणममितौजसम् । अपृच्छं यत्त्वया पृष्टं व्यासाद्य प्रश्नमुत्तमम्
पितः कुतः समुत्पन्नं ब्रह्माण्डमखिलं विभो । भवत्कृतेन वा सम्यक् किं वा विष्णुकृतं त्विदम्
रुद्रकृतं वा विश्वात्मन् ब्रूहि सत्यं जगत्पते । आराधनीयः कः कामं सर्वोत्कृष्टश्च कः प्रभुः
तत्सर्वं वद मे ब्रह्मन्सन्देहांश्छिन्धि चानघ । निमग्नो ह्यस्मि संसारे दुःखरूपेऽनृतोपमे
सन्देहान्दोलितं चेतो न प्रशाम्यति कुत्रचित् । न तीर्थेषु न देवेषु साधनेष्वितरेषु च
अविज्ञाय परं तत्त्वं कुतः शान्तिः परन्तप । विकीर्णं बहुधा चित्तं नैकत्र स्थिरतां व्रजेत्
कं स्मरामि यजे कं वा कं व्रजाम्यर्चयामि कम् । स्तौमि कं नाभिजानामि देव सर्वेश्वरेश्वरम्
ततो मां प्रत्युवाचेदं ब्रह्मा लोकपितामहः । मया सत्यवतीसूनो कृते प्रश्ने सुदुस्तरे
ब्रह्मोवाच किं ब्रवीमि सुताद्याहं दुर्बोधं प्रश्नमुत्तमम् । त्वयाशक्यं महाभाग विष्णोरपि सुनिश्चयात्
रागी कोऽपि न जानाति संसारेऽस्मिन्महामते । विरक्तश्च विजानाति निरीहो यो विमत्सरः
एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे भूतमात्रे समुत्पन्ने सञ्जज्ञे कमलादहम्
नापश्यं तरणिं सोमं न वृक्षान्न च पर्वतान् । कर्णिकायां समाविष्टश्चिन्तामकरवं तदा
कस्मादहं समुद्भूतः सलिलेऽस्मिन्महार्णवे । को मे त्राता प्रभुः कर्ता संहर्ता वा युगात्यये
न च भूर्विद्यते स्पष्टा यदाधारं जलं त्विदम् । पङ्कजं कथमुत्पन्नं प्रसिद्धं रूढियोगयोः
पश्याम्यद्यास्य पङ्कं तं मूलं वै पङ्कजस्य च । भविष्यति धरा तत्र मूलं नास्त्यत्र संशयः
उत्तरन्सलिले तत्र यावद्वर्षसहस्रकम् । अन्वेषमाणो धरणीं नावाप तां यदा तदा
तपस्तपेति चाकाशे वागभूदशरीरिणी । ततो मया तपस्तप्तं पद्मे वर्षसहस्रकम्
सृजेति पुनरुद्भूता वाणी तत्र श्रुता मया । विमूढोऽहं तदाकर्ण्य कं सृजामि करोमि किम्
तदा दैत्यावपि प्राप्तौ दारुणौ मधुकैटभौ । ताभ्यां विभीषितश्चाहं युद्धाय मकरालये
ततोऽहं नालमालम्ब्य वारिमध्यमवातरम् । तदा तत्र मया दृष्टः पुरुषः परमाद्भुतः
मेघश्यामशरीरस्तु पीतवासाश्चतुर्भुजः । शेषशायी जगन्नाथो वनमालाविभूषितः
शङ्खचक्रगदापद्माद्यायुधैः सुविराजितः । तमद्राक्षं महाविष्णुं शेषपर्यङ्कशायिनम्
योगनिद्रासमाक्रान्तमविस्पन्दिनमच्युतम् । शयानं तं समालोक्य भोगिभोगोपरि स्थितम्
चिन्ता ममाद्भुता जाता किं करोमीति नारद । मया स्मृता तदा देवी स्तुता निद्रास्वरूपिणी
देहान्निर्गत्य सा देवी गगने संस्थिता शिवा । अवितर्क्यशरीरा सा दिव्याभरणमण्डिता