अरूपं व्यापकं ब्रह्म प्रवदन्ति मुनीश्वराः । वेदोपनिषदि प्रोक्तस्तेजोमय इति क्वचित्
सहस्रशीर्षा पुरुषः सहस्रनयनस्तथा । सहस्रकरकर्णश्च सहस्रास्यः सहस्रपात्
विष्णोः पादमथाकाशं परमं समुदाहृतम् । विराजं विरजं शान्तं प्रवदन्ति मनीषिणः
पुरुषोत्तमं तथा चान्ये प्रवदन्ति पुराविदः । नैकोऽपीति वदन्त्यन्ये प्रभुरीशः कदाचन
अनीश्वरमिदं सर्वं ब्रह्माण्डमिति केचन । न कदापीशजन्यं यज्जगदेतदचिन्तितम्
सदैवेदमनीशं च स्वभावोत्थं सदेदृशम् । अकर्तासौ पुमान्प्रोक्तः प्रकृतिस्तु तथा च सा
एवं वदन्ति साङ्ख्याश्च मुनयः कपिलादयः । एते सन्देहसन्दोहाः प्रभवन्ति तथाऽपरे
विकल्पोपहतं चेतः किं करोमि मुनीश्वर । धर्माधर्मविवक्षायां न मनो मे स्थिरं भवेत्
को धर्मः कीदृशोऽधर्मश्चिह्नं नैवोपलभ्यते । देवाः सत्त्वगुणोत्पन्नाः सत्यधर्मव्यवस्थिताः
पीड्यन्ते दानवैः पापैः कुत्र धर्मव्यवस्थितिः । धर्मस्थिताः सदाचाराः पाण्डवा मम वंशजाः
दुःखं बहुविधं प्राप्तास्तत्र धर्मस्य का स्थितिः । अतो मे हृदयं तात वेपतेऽतीव संशये
कुरु मेऽसंशयं चेतः समर्थोऽसि महामुने । त्राहि संसारवार्धेस्त्वं ज्ञानपोतेन मां मुने
मज्जन्तं चोत्पतन्तं च मग्नं मोहजलाविले
ब्रह्मादीनाङ्गतिवर्णनम् व्यास उवाच यत्त्वया च महाबाहो पृष्टोऽहं कुरुसत्तम । तान्प्रश्नान्नारदः प्राह मया पृष्टो मुनीश्वरः
नारद उवाच व्यास किं ते ब्रवीम्यद्य पुराऽयं संशयो मम । उत्पन्नो हृदयेऽत्यर्थं संदेहासारपीडितः
गत्वाऽहं पितरं स्थाने ब्रह्माणममितौजसम् । अपृच्छं यत्त्वया पृष्टं व्यासाद्य प्रश्नमुत्तमम्
पितः कुतः समुत्पन्नं ब्रह्माण्डमखिलं विभो । भवत्कृतेन वा सम्यक् किं वा विष्णुकृतं त्विदम्
रुद्रकृतं वा विश्वात्मन् ब्रूहि सत्यं जगत्पते । आराधनीयः कः कामं सर्वोत्कृष्टश्च कः प्रभुः
तत्सर्वं वद मे ब्रह्मन्सन्देहांश्छिन्धि चानघ । निमग्नो ह्यस्मि संसारे दुःखरूपेऽनृतोपमे
सन्देहान्दोलितं चेतो न प्रशाम्यति कुत्रचित् । न तीर्थेषु न देवेषु साधनेष्वितरेषु च
अविज्ञाय परं तत्त्वं कुतः शान्तिः परन्तप । विकीर्णं बहुधा चित्तं नैकत्र स्थिरतां व्रजेत्
कं स्मरामि यजे कं वा कं व्रजाम्यर्चयामि कम् । स्तौमि कं नाभिजानामि देव सर्वेश्वरेश्वरम्
ततो मां प्रत्युवाचेदं ब्रह्मा लोकपितामहः । मया सत्यवतीसूनो कृते प्रश्ने सुदुस्तरे
ब्रह्मोवाच किं ब्रवीमि सुताद्याहं दुर्बोधं प्रश्नमुत्तमम् । त्वयाशक्यं महाभाग विष्णोरपि सुनिश्चयात्
रागी कोऽपि न जानाति संसारेऽस्मिन्महामते । विरक्तश्च विजानाति निरीहो यो विमत्सरः
एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे भूतमात्रे समुत्पन्ने सञ्जज्ञे कमलादहम्
नापश्यं तरणिं सोमं न वृक्षान्न च पर्वतान् । कर्णिकायां समाविष्टश्चिन्तामकरवं तदा
कस्मादहं समुद्भूतः सलिलेऽस्मिन्महार्णवे । को मे त्राता प्रभुः कर्ता संहर्ता वा युगात्यये
न च भूर्विद्यते स्पष्टा यदाधारं जलं त्विदम् । पङ्कजं कथमुत्पन्नं प्रसिद्धं रूढियोगयोः
पश्याम्यद्यास्य पङ्कं तं मूलं वै पङ्कजस्य च । भविष्यति धरा तत्र मूलं नास्त्यत्र संशयः