यज्ञाधीशं सुराधीशं त्रिलोकेशं शचीपतिम् । यज्ञानां चैव भोक्तारं सोमपं सोमपप्रियम्
वरुणं च तथा सोमं पावकं पवनं तथा । यमं कुबेरं धनदं गणाधीशं तथापरे
हेरम्बं गजवक्त्रं च सर्वकार्यप्रसाधकम् । स्मरणात्सिद्धिदं कामं कामदं कामगं परम्
भवानीं केचनाचार्याः प्रवदन्त्यखिलार्थदाम् । आदिमायां महाशक्तिं प्रकृतिं पुरुषानुगाम्
ब्रह्मैकतासमापन्नां सृष्टिस्थित्यन्तकारिणीम् । मातरं सर्वभूतानां देवतानां तथैव च
अनादिनिधनां पूर्णां व्यापिकां सर्वजन्तुषु । ईश्वरीं सर्वलोकानां निर्गुणां सगुणां शिवाम्
वैष्णवीं शाङ्करीं ब्राह्मीं वासवीं वारुणीं तथा । वाराहीं नारसिंहीं च महालक्ष्मीं तथाद्भुताम्
वेदमातरमेकां च विद्यां भवतरोः स्थिराम् । सर्वदुःखनिहन्त्रीं च स्मरणात्सर्वकामदाम्
मोक्षदां च मुमुक्षूणां कामदां च फलार्थिनाम् । त्रिगुणातीतरूपां च गुणविस्तारकारकाम्
निर्गुणां सगुणां तस्मात्तां ध्यायन्ति फलार्थिनः । निरंजनं निराकारं निर्लेपं निर्गुणं किल
अरूपं व्यापकं ब्रह्म प्रवदन्ति मुनीश्वराः । वेदोपनिषदि प्रोक्तस्तेजोमय इति क्वचित्
सहस्रशीर्षा पुरुषः सहस्रनयनस्तथा । सहस्रकरकर्णश्च सहस्रास्यः सहस्रपात्
विष्णोः पादमथाकाशं परमं समुदाहृतम् । विराजं विरजं शान्तं प्रवदन्ति मनीषिणः
पुरुषोत्तमं तथा चान्ये प्रवदन्ति पुराविदः । नैकोऽपीति वदन्त्यन्ये प्रभुरीशः कदाचन
अनीश्वरमिदं सर्वं ब्रह्माण्डमिति केचन । न कदापीशजन्यं यज्जगदेतदचिन्तितम्
सदैवेदमनीशं च स्वभावोत्थं सदेदृशम् । अकर्तासौ पुमान्प्रोक्तः प्रकृतिस्तु तथा च सा
एवं वदन्ति साङ्ख्याश्च मुनयः कपिलादयः । एते सन्देहसन्दोहाः प्रभवन्ति तथाऽपरे
विकल्पोपहतं चेतः किं करोमि मुनीश्वर । धर्माधर्मविवक्षायां न मनो मे स्थिरं भवेत्
को धर्मः कीदृशोऽधर्मश्चिह्नं नैवोपलभ्यते । देवाः सत्त्वगुणोत्पन्नाः सत्यधर्मव्यवस्थिताः
पीड्यन्ते दानवैः पापैः कुत्र धर्मव्यवस्थितिः । धर्मस्थिताः सदाचाराः पाण्डवा मम वंशजाः
दुःखं बहुविधं प्राप्तास्तत्र धर्मस्य का स्थितिः । अतो मे हृदयं तात वेपतेऽतीव संशये
कुरु मेऽसंशयं चेतः समर्थोऽसि महामुने । त्राहि संसारवार्धेस्त्वं ज्ञानपोतेन मां मुने
मज्जन्तं चोत्पतन्तं च मग्नं मोहजलाविले
ब्रह्मादीनाङ्गतिवर्णनम् व्यास उवाच यत्त्वया च महाबाहो पृष्टोऽहं कुरुसत्तम । तान्प्रश्नान्नारदः प्राह मया पृष्टो मुनीश्वरः
नारद उवाच व्यास किं ते ब्रवीम्यद्य पुराऽयं संशयो मम । उत्पन्नो हृदयेऽत्यर्थं संदेहासारपीडितः
गत्वाऽहं पितरं स्थाने ब्रह्माणममितौजसम् । अपृच्छं यत्त्वया पृष्टं व्यासाद्य प्रश्नमुत्तमम्
पितः कुतः समुत्पन्नं ब्रह्माण्डमखिलं विभो । भवत्कृतेन वा सम्यक् किं वा विष्णुकृतं त्विदम्
रुद्रकृतं वा विश्वात्मन् ब्रूहि सत्यं जगत्पते । आराधनीयः कः कामं सर्वोत्कृष्टश्च कः प्रभुः
तत्सर्वं वद मे ब्रह्मन्सन्देहांश्छिन्धि चानघ । निमग्नो ह्यस्मि संसारे दुःखरूपेऽनृतोपमे
सन्देहान्दोलितं चेतो न प्रशाम्यति कुत्रचित् । न तीर्थेषु न देवेषु साधनेष्वितरेषु च