एककर्तृकमेतद्वा बहुकर्तृकमन्यथा । अकर्तृकं न कार्यं स्याद्विरोधोऽयं विभाति मे
इति सन्देहसन्दोहे मग्नं मां तारयाधुना । विकल्पकोटीः कृर्वाणं संसारेऽस्मिन् प्रविस्तरे
ब्रुवन्ति शंकरं केचिन्मत्वा कारणकारणम् । सदाशिवं महादेवं प्रलयोत्पत्तिवर्जितम्
आत्मारामं सुरेशं च त्रिगुणं निर्मलं हरम् । संसारतारकं नित्यं सृष्टिस्थित्यन्तकारणम्
अन्ये विष्णुं स्तुवन्त्येनं सर्वेषां प्रभुमीश्वरम् । परमात्मानमव्यक्तं सर्वशक्तिसमन्वितम्
भुक्तिदं मुक्तिदं शान्तं सर्वादिं सर्वतोमुखम् । व्यापकं विश्वशरणमनादिनिधनं हरिम्
धातारं च तथा चान्ये ब्रुवन्ति सृष्टिकारणम् । तमेव सर्ववेत्तारं सर्वभूतप्रवर्तकम्
चतुर्मुखं सुरेशानं नाभिपद्मभवं विभुम् । स्रष्टारं सर्वलोकानां सत्यलोकनिवासिनम्
दिनेशं प्रवदन्त्यन्ये सर्वेशं वेदवादिनः । स्तुवन्ति चैव गायन्ति सायं प्रातरतन्द्रिताः
यजन्ति च तथा यज्ञे वासवं च शतक्रतुम् । सहस्राक्षं देवदेवं सर्वेषां प्रभुमुल्बणम्
यज्ञाधीशं सुराधीशं त्रिलोकेशं शचीपतिम् । यज्ञानां चैव भोक्तारं सोमपं सोमपप्रियम्
वरुणं च तथा सोमं पावकं पवनं तथा । यमं कुबेरं धनदं गणाधीशं तथापरे
हेरम्बं गजवक्त्रं च सर्वकार्यप्रसाधकम् । स्मरणात्सिद्धिदं कामं कामदं कामगं परम्
भवानीं केचनाचार्याः प्रवदन्त्यखिलार्थदाम् । आदिमायां महाशक्तिं प्रकृतिं पुरुषानुगाम्
ब्रह्मैकतासमापन्नां सृष्टिस्थित्यन्तकारिणीम् । मातरं सर्वभूतानां देवतानां तथैव च
अनादिनिधनां पूर्णां व्यापिकां सर्वजन्तुषु । ईश्वरीं सर्वलोकानां निर्गुणां सगुणां शिवाम्
वैष्णवीं शाङ्करीं ब्राह्मीं वासवीं वारुणीं तथा । वाराहीं नारसिंहीं च महालक्ष्मीं तथाद्भुताम्
वेदमातरमेकां च विद्यां भवतरोः स्थिराम् । सर्वदुःखनिहन्त्रीं च स्मरणात्सर्वकामदाम्
मोक्षदां च मुमुक्षूणां कामदां च फलार्थिनाम् । त्रिगुणातीतरूपां च गुणविस्तारकारकाम्
निर्गुणां सगुणां तस्मात्तां ध्यायन्ति फलार्थिनः । निरंजनं निराकारं निर्लेपं निर्गुणं किल
अरूपं व्यापकं ब्रह्म प्रवदन्ति मुनीश्वराः । वेदोपनिषदि प्रोक्तस्तेजोमय इति क्वचित्
सहस्रशीर्षा पुरुषः सहस्रनयनस्तथा । सहस्रकरकर्णश्च सहस्रास्यः सहस्रपात्
विष्णोः पादमथाकाशं परमं समुदाहृतम् । विराजं विरजं शान्तं प्रवदन्ति मनीषिणः
पुरुषोत्तमं तथा चान्ये प्रवदन्ति पुराविदः । नैकोऽपीति वदन्त्यन्ये प्रभुरीशः कदाचन
अनीश्वरमिदं सर्वं ब्रह्माण्डमिति केचन । न कदापीशजन्यं यज्जगदेतदचिन्तितम्
सदैवेदमनीशं च स्वभावोत्थं सदेदृशम् । अकर्तासौ पुमान्प्रोक्तः प्रकृतिस्तु तथा च सा
एवं वदन्ति साङ्ख्याश्च मुनयः कपिलादयः । एते सन्देहसन्दोहाः प्रभवन्ति तथाऽपरे
विकल्पोपहतं चेतः किं करोमि मुनीश्वर । धर्माधर्मविवक्षायां न मनो मे स्थिरं भवेत्
को धर्मः कीदृशोऽधर्मश्चिह्नं नैवोपलभ्यते । देवाः सत्त्वगुणोत्पन्नाः सत्यधर्मव्यवस्थिताः
पीड्यन्ते दानवैः पापैः कुत्र धर्मव्यवस्थितिः । धर्मस्थिताः सदाचाराः पाण्डवा मम वंशजाः