हर्षशोकयुतास्ते वै निद्रालस्यसमन्विताः । सप्तधातुमयास्तेषां देहाः किं वान्यथा मुने
कैर्द्रव्यैर्निर्मितास्ते वै कैर्गुणैरिन्द्रियैस्तथा । भोगश्च कीदृशस्तेषां प्रमाणमायुषस्तथा
निवासस्थानमप्येषां विभूतिं च वदस्व मे । श्रोतुमिच्छाम्यहं ब्रह्मन् विस्तरेण कथामिमाम्
व्यास उवाच - दुर्गमः प्रश्नभारोऽयं कृतो राजंस्त्वयाऽधुना । ब्रह्मादीनां समुत्पत्तिः कस्मादिति महामते
एतदेव मया पूर्वं पृष्टोऽसौ नारदो मुनिः । विस्मितः प्रत्युवाचेदमुत्थितः शृणु भूपते
कस्मिंश्च समये चाहं गङ्गातीरे स्थितं मुनिम् । अपश्यं नारदं शान्तं सर्वज्ञं वेदवित्तमम्
दृष्ट्वाहं मुदितो भूत्वा पादयोरपतं मुनेः । तेजाज्ञप्तः समीपेऽस्य संविष्टश्च वरासने
श्रुत्वा कुशलवार्तां वै तमपृच्छं विधेः सुतम् । निर्विष्टं जाह्नवीतीरे निर्जने सूक्ष्मवालुके
मुनेऽतिविततस्यास्य ब्रह्माण्डस्य महामते । कः कर्ता परमः प्रोक्तस्तन्मे ब्रूहि विधानतः
कस्मादेतत्समुत्पन्नं ब्रह्माण्डं मुनिसत्तम । अनित्यं वा तथा नित्यं तदाचक्ष्व द्विजोत्तम
एककर्तृकमेतद्वा बहुकर्तृकमन्यथा । अकर्तृकं न कार्यं स्याद्विरोधोऽयं विभाति मे
इति सन्देहसन्दोहे मग्नं मां तारयाधुना । विकल्पकोटीः कृर्वाणं संसारेऽस्मिन् प्रविस्तरे
ब्रुवन्ति शंकरं केचिन्मत्वा कारणकारणम् । सदाशिवं महादेवं प्रलयोत्पत्तिवर्जितम्
आत्मारामं सुरेशं च त्रिगुणं निर्मलं हरम् । संसारतारकं नित्यं सृष्टिस्थित्यन्तकारणम्
अन्ये विष्णुं स्तुवन्त्येनं सर्वेषां प्रभुमीश्वरम् । परमात्मानमव्यक्तं सर्वशक्तिसमन्वितम्
भुक्तिदं मुक्तिदं शान्तं सर्वादिं सर्वतोमुखम् । व्यापकं विश्वशरणमनादिनिधनं हरिम्
धातारं च तथा चान्ये ब्रुवन्ति सृष्टिकारणम् । तमेव सर्ववेत्तारं सर्वभूतप्रवर्तकम्
चतुर्मुखं सुरेशानं नाभिपद्मभवं विभुम् । स्रष्टारं सर्वलोकानां सत्यलोकनिवासिनम्
दिनेशं प्रवदन्त्यन्ये सर्वेशं वेदवादिनः । स्तुवन्ति चैव गायन्ति सायं प्रातरतन्द्रिताः
यजन्ति च तथा यज्ञे वासवं च शतक्रतुम् । सहस्राक्षं देवदेवं सर्वेषां प्रभुमुल्बणम्
यज्ञाधीशं सुराधीशं त्रिलोकेशं शचीपतिम् । यज्ञानां चैव भोक्तारं सोमपं सोमपप्रियम्
वरुणं च तथा सोमं पावकं पवनं तथा । यमं कुबेरं धनदं गणाधीशं तथापरे
हेरम्बं गजवक्त्रं च सर्वकार्यप्रसाधकम् । स्मरणात्सिद्धिदं कामं कामदं कामगं परम्
भवानीं केचनाचार्याः प्रवदन्त्यखिलार्थदाम् । आदिमायां महाशक्तिं प्रकृतिं पुरुषानुगाम्
ब्रह्मैकतासमापन्नां सृष्टिस्थित्यन्तकारिणीम् । मातरं सर्वभूतानां देवतानां तथैव च
अनादिनिधनां पूर्णां व्यापिकां सर्वजन्तुषु । ईश्वरीं सर्वलोकानां निर्गुणां सगुणां शिवाम्
वैष्णवीं शाङ्करीं ब्राह्मीं वासवीं वारुणीं तथा । वाराहीं नारसिंहीं च महालक्ष्मीं तथाद्भुताम्
वेदमातरमेकां च विद्यां भवतरोः स्थिराम् । सर्वदुःखनिहन्त्रीं च स्मरणात्सर्वकामदाम्
मोक्षदां च मुमुक्षूणां कामदां च फलार्थिनाम् । त्रिगुणातीतरूपां च गुणविस्तारकारकाम्
निर्गुणां सगुणां तस्मात्तां ध्यायन्ति फलार्थिनः । निरंजनं निराकारं निर्लेपं निर्गुणं किल