पीडाऽथ भूपतिभयं ज्ञानप्राप्तिः क्रमात्फलम् । पुराणश्रवणे चक्रं शोधयेच्छिवभाषितम्
अथवा प्रीतये देव्या नवरात्रचतुष्टये । शृणुयादन्यमासेऽपि तिथिवारर्क्षशोधिते
संभारं तादृशं कार्यं विवाहादौ च यादृशम् । नवाह्यज्ञे चाप्यस्मिन्विधेयं यत्नतो बुधैः
सहाया बहवः कार्या दम्भलोभविवर्जिताः । चतुराश्च वदान्याश्च देवीभक्तिपरा नराः
प्रेष्या यत्नेन वार्तेयं देशे देशे जने जने । आगन्तव्यमिहावश्यं कथा देव्या भविष्यति
सौराश्च गाणपत्याश्च शैवाः शाक्ताश्च वैष्णवाः । सर्वेषामपि सेव्येयं यतो देवाः सशक्तयः
श्रीमद्देवीभागवतपीयूषरसलोलुपैः । आगंतव्यं विशेषेण कथार्थं प्रेमतत्परैः
ब्राह्मणाद्याश्च ये वर्णाः स्त्रियश्चाश्रमिणस्तथा । सकामाश्चापि निष्कामाः पातव्यं तैः कथामृतम्
नावकाशः कदाचित्स्यान्नवाहश्रवणेऽपि तैः । आगंतव्यं यथाकालं यज्ञे पुण्या क्षणस्थितिः
विनयेनैव कर्त्तव्यमेवमाकारणं नृणाम् । आगतानां च कर्त्तव्यं वासस्थानं यथोचितम्
कथास्थानं प्रकर्त्तव्यं भूमौ मार्जनपूर्वकम् । लेपनं गोमयेनाथ विशालायां मनोरमम्
कार्यस्तु मण्डपो रम्यो रंभास्तंभोपशोभितः । वितानमुपरिष्ठात्तु पताकाध्वज राजितः
वक्तुश्चैवासनं दिव्यं सुखास्तरणसंयुतम् । रचितव्यं प्रयत्नेन प्राङ्मुखं वाप्युदङ्मुखम्
यथोचितानि कुर्वीत श्रोतॄणामासनानि च । नृणां चैवाथ नारीणां कथाश्रवणहेतवे
वाग्मी दांतश्च शास्त्रज्ञो देव्याराधनतत्परः । दयालुनिस्पृहो दक्षो धीरो वक्तोत्तमो मतः
ब्रह्मण्यो देवताभक्तः कथारसपरायणः । उदारोऽलोलुपो नम्रः श्रोता हिंसादिवर्जितः
पाखण्डनिरतो लुब्धः स्त्रैणो धर्मध्वजस्तथा । निष्ठुरः क्रोधनो वक्ता देवीयज्ञे न शस्यते
संशयच्छेदनायैक: पण्डितश्च तथागुणः । श्रोतृबोधकृदव्यग्रः कार्य्यो वक्तुः सहायकृत्
मुहूर्तं दिवसादर्वाग्वक्तृश्रोतादिभिर्जनैः । कर्त्तव्यं क्षौरकर्मादि ततो नियमकल्पनम्
अरुणोदयवेलायां स्नायाच्छौचं विधाय च । संध्या तर्पणकार्यं च नित्यं संक्षेपतश्चरेत्
कथाश्रवणयोग्यत्वसिद्धये गाश्च दापयेत् । समस्तविघ्नहर्तारमादौ गणपतिं यजेत्
कलशांश्चापि संस्थाप्य पूजयेत्तत्र दिग्भवान् । वटुकं क्षेत्रपालं च योगिनीर्मातृकास्तथा
तुलसीं चापि संपूज्य ग्रहान्विष्णुं च शंकरम् । नवाक्षरेण मनुना पूजयेज्जगदम्बिकाम्
सर्वोपचारैः संपूज्य श्रीभागवतपुस्तकम् । श्रीदेव्या वाङ्मयीं मूर्तिं यथावच्छोभनाक्षरम्
कथाविघ्नोपशांत्यर्थं वृणुयात्तं च वाडवान् । जाप्यो नवार्णमंत्रस्तैः पाठ्यः सप्तशतीस्तवः
प्रदक्षिणनमस्कारान्कृत्वांते स्तुतिमाचरेत् । कात्यायनि महामाये भवानि भुवनेश्वरि
संसारसागरे मग्नं मामुद्धर कृपामये । ब्रह्मविष्णुशिवाराध्ये प्रसीद जगदंबिके
मनोभिलषितं देवि वरं देहि नमोऽस्तु ते । इति संप्रार्थ्य शृणुयात्कथां नियतमानसः
वक्तारं चापि संपूज्य व्यासबुद्ध्या तदात्मवान् । माल्यालंकारवस्त्राद्यैः संभूष्य' प्रार्थयेच्च तम्
सर्वशास्त्रेतिहासज्ञ व्यासरूप नमोऽस्तु ते । कथाचंद्रोदयेनांतस्तमःस्तोमं निराकुरु ॥ ३५ तदग्रे तु नवाहान्तं कर्त्तव्या नियमास्तदा । विप्रादीनुपवेश्यादौ संपूज्योपविशेत्स्वयम्