धर्मलोपभयाद्भीता जरत्कारुरचिन्तयत् । नोचेत्प्रबोथयाम्येनं सन्ध्याकालो वृथा व्रजेत्
धर्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् । धर्महानिर्नराणां हि नरकाय भवेत्पुनः
इति सञ्चिन्त्य सा बाला तं मुनिं प्रत्यबोधयत् । सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठसुव्रत
उत्थितोऽसौ मुनिः कोपात्तामुवाच व्रजाम्यहम् । त्वं तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी
वेपमानाब्रवीद्वाक्यमित्युक्ता मुनिना तदा । भ्रात्रा दत्ता यदर्थं तत्कथं स्यादमितप्रभ
मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः । गता सा मुनिना त्यक्ता वासुकेः सदनं तदा
पृष्टा भ्रात्राब्रवीद्वाक्यं यथोक्तं पतिना तदा । अस्तीत्युक्त्वा च हित्वा मां गतोऽसौ मुनिसत्तमः
वासुकिस्तु तदाकर्ण्य सत्यावाङ्मुनिरित्युत । विश्वासं च परं कृत्वा भगिनीं तां समाश्रयत्
ततः कालेन कियता जातोऽसौ मुनिबालकः । आस्तीक इति नामासौ विख्यातः कुरुसत्तम
तेनायं रक्षितो यज्ञस्तव पार्थिवसत्तम । मातृपक्षस्य रक्षार्थं मुनिना भावितात्मना
भव्यं कृतं महाराज मानितोऽयं त्वया मुनिः । यायावरकुलोत्पनो वासुकेर्भगिनीसुतः
स्वस्ति तेऽस्तु महाबाहो भारतं सकलं श्रुतम् । दानानि बहु दत्तानि पूजिता मुनयस्तथा
कृतेन सुकृतेनापि न पिता स्वर्गतिं गतः । पावितं न कुलं कृत्स्नं त्वया भूपतिसत्तम
देव्याश्चायतनं भूप विस्तीर्णं कुरु भक्तितः । येन वै सकला सिद्धिस्तव स्याज्जनमेजय
पूजिता परया भक्त्या शिवा सकलदा सदा । कुलवृद्धिं करोत्येव राज्यं च सुस्थिरं सदा
देवीमखं विधानेन कृत्वा पार्थिवसत्तम । श्रीमद्भागवतं नाम पुराणं परमं शृणु
त्वामहं श्रावयिष्यामि कथां परमपावनीम् । संसारतारिणीं दिव्यां नानारससमाहृताम्
न श्रोतव्यं परं चास्मात्पुराणाद्विद्यते भुवि । नाराध्यं विद्यते राजन्देवीपादाम्बुजादृते
ते सभाग्याः कृतप्रज्ञा धन्यास्ते नृपसत्तम । येषां चित्ते सदा देवी वसति प्रेमसंकुले
सुदुःखितास्ते दृश्यन्ते भुवि भारत भारते । नाराधिता महामाया यैर्जनैश्च सदाम्बिका
ब्रह्मादयः सुराः सर्वे यदाराधनतत्पराः । वर्तन्ते सर्वदा राजंस्तां न सेवेत को जनः
य इदं शृणुयान्नित्यं सर्वान्कामानवाप्नुयात् । भगवत्या समाख्यातं विष्णवे यदनुत्तमम्
तेन श्रुतेन ते राजंश्चित्ते शान्तिर्भविष्यति । पितॄणां चाक्षयः स्वर्गः पुराणश्रवणाद्भवेत्
भुवनेश्वरीवर्णनम् जनमेजय उवाच - भगवन् भवता प्रोक्तं यज्ञमम्बाभिधं महत् । सा का कथं समुत्पन्ना कुत्र कस्माच्च किंगुणा
कीदृशश्च मखस्तस्याः स्वरूपं कीदृशं तथा । विधानं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे
ब्रह्माण्डस्य तथोत्पत्तिं वद विस्तरतस्तथा । यथोक्तं यादृशं ब्रह्मन्नखिलं वेत्सि भूसुर
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवा मया श्रुताः । सृष्टिपालनसंहारकारकाः सगुणास्त्वमी
स्वतन्त्रास्ते महात्मानः पाराशर्य वदस्व मे । आहोस्वित्परतन्त्रास्ते श्रोतुमिच्छामि साम्प्रतम्
मृत्युधर्माश्च ते नो वा सच्चिदानन्दरूपिणः । अधिभूतादिभिर्युक्ता न वा दुःखैस्त्रिधात्मकैः
कालस्य वशगा नो वा ते सुरेंद्रा महाबलाः । कथं ते वै समुत्पन्ना कस्मादिति च संशयः