मात्रा शप्ताश्च ये नागा वासुकिप्रमुखाः शुचा । ब्रह्माणं शरणं गत्वा ते होचुः शापजं भयम्
तानाह भगवान्ब्रह्मा जरत्कारुर्महामुनिः । वासुकेर्भगिनीं तस्मै अर्पयध्वं सनामिकाम्
तस्यां यो जायते पुत्रः स वस्त्राता भविष्यति । आस्तीक इति नामासौ भविता नात्र संशयः
वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः शिवम् । वनं गत्वा सुतां तस्मै ददौ विनयपूर्वकम्
सनामां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम् । अप्रियं मे यदा कुर्यात्तदा तां सन्त्यजाम्यहम्
वाग्बन्धं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् । दत्त्वा च वासुकिः कामं भवनं स्वं जगाम ह
कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने । तया सह सुखं प्राप रममाणः परन्तप
एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः । भगिनी वासुकेस्तत्र संस्थिता वरवर्णिनी
न सम्बोधयितव्योऽहं त्वया कान्ते कथञ्चन । इत्युक्त्वा तु गतो निद्रां मुनिस्तां सुदतीं तदा
रविरस्तगिरिं प्राप्तः सन्ध्याकाल उपस्थिते । किं करोमि न मे शान्तिस्त्यजेन्मां बोधितः पुनः
धर्मलोपभयाद्भीता जरत्कारुरचिन्तयत् । नोचेत्प्रबोथयाम्येनं सन्ध्याकालो वृथा व्रजेत्
धर्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् । धर्महानिर्नराणां हि नरकाय भवेत्पुनः
इति सञ्चिन्त्य सा बाला तं मुनिं प्रत्यबोधयत् । सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठसुव्रत
उत्थितोऽसौ मुनिः कोपात्तामुवाच व्रजाम्यहम् । त्वं तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी
वेपमानाब्रवीद्वाक्यमित्युक्ता मुनिना तदा । भ्रात्रा दत्ता यदर्थं तत्कथं स्यादमितप्रभ
मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः । गता सा मुनिना त्यक्ता वासुकेः सदनं तदा
पृष्टा भ्रात्राब्रवीद्वाक्यं यथोक्तं पतिना तदा । अस्तीत्युक्त्वा च हित्वा मां गतोऽसौ मुनिसत्तमः
वासुकिस्तु तदाकर्ण्य सत्यावाङ्मुनिरित्युत । विश्वासं च परं कृत्वा भगिनीं तां समाश्रयत्
ततः कालेन कियता जातोऽसौ मुनिबालकः । आस्तीक इति नामासौ विख्यातः कुरुसत्तम
तेनायं रक्षितो यज्ञस्तव पार्थिवसत्तम । मातृपक्षस्य रक्षार्थं मुनिना भावितात्मना
भव्यं कृतं महाराज मानितोऽयं त्वया मुनिः । यायावरकुलोत्पनो वासुकेर्भगिनीसुतः
स्वस्ति तेऽस्तु महाबाहो भारतं सकलं श्रुतम् । दानानि बहु दत्तानि पूजिता मुनयस्तथा
कृतेन सुकृतेनापि न पिता स्वर्गतिं गतः । पावितं न कुलं कृत्स्नं त्वया भूपतिसत्तम
देव्याश्चायतनं भूप विस्तीर्णं कुरु भक्तितः । येन वै सकला सिद्धिस्तव स्याज्जनमेजय
पूजिता परया भक्त्या शिवा सकलदा सदा । कुलवृद्धिं करोत्येव राज्यं च सुस्थिरं सदा
देवीमखं विधानेन कृत्वा पार्थिवसत्तम । श्रीमद्भागवतं नाम पुराणं परमं शृणु
त्वामहं श्रावयिष्यामि कथां परमपावनीम् । संसारतारिणीं दिव्यां नानारससमाहृताम्
न श्रोतव्यं परं चास्मात्पुराणाद्विद्यते भुवि । नाराध्यं विद्यते राजन्देवीपादाम्बुजादृते
ते सभाग्याः कृतप्रज्ञा धन्यास्ते नृपसत्तम । येषां चित्ते सदा देवी वसति प्रेमसंकुले
सुदुःखितास्ते दृश्यन्ते भुवि भारत भारते । नाराधिता महामाया यैर्जनैश्च सदाम्बिका