तं दृष्ट्वा च तदा कद्रूर्विनतामिदमब्रवीत् । किंवर्णोऽयं हयो भद्रे सत्यं प्रब्रूहि माचिरम्
विनतोवाच श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे । ब्रूहि वर्णं त्वमप्यस्य ततस्तु विपणावहे
कद्रुरुवाच कृष्णवर्णमहं मन्ये हयमेनं शुचिस्मिते । एहि सार्धं मया दिव्यं दासीभावाय भामिनि
सूत उवाच कद्रूश्च स्वसुतानाह सर्वान्सर्पान्वशे स्थितान् । बालाञ्छ्यामान्प्रकुर्वन्तु यावतोऽश्वशरीरके
नेति केचन तत्राहुस्तानथासौ शशाप ह । जनमेजयस्य यज्ञे वै गमिष्यथ हुताशनम्
अन्ये चक्रुर्हयं सर्पाः कर्बुरं वर्णभोगकैः । वेष्टयित्वास्य पुच्छं तु मातुः प्रियचिकीर्षया
भगिन्यौ च सुसंयुक्ते गत्वा ददृशतुर्हयम् । कर्बुरं तं हयं दृष्ट्वा विनता चातिदुःखिता
तदाजगाम गरुडः सुतस्तस्या महाबलः । स दृष्ट्वा मातरं दीनामपृच्छत्पन्नगाशनः
मातः कथं सुदीनासि रुदितेव विभासि मे । जीवमाने मयि सुते तथान्ये रविसारथौ
दुःखितासि ततो वां धिग्जीवितं चारुलोचने । किं जातेन सुतेनाथ यदि माता सुदुःखिता
शंस मे कारणं मातः करोमि विगतज्वराम् । विनतोवाच सपत्न्या दास्यहं पुत्र किं ब्रवीमि वृथा क्षता
वह मां सा ब्रवीत्यद्य तेनास्मि दुःखिता सुत । गरुड उवाच वहिष्येऽहं तत्र किल यत्र सा गन्तुमुत्सुका
मा शोकं कुरु कल्याणि निश्चिन्तां त्वां करोम्यहम् । व्यास उवाच इत्युक्ता सा गता पार्श्वं कद्रोश्च विनता तदा
दासीभावमपाकर्तुं गरुडोऽपि महाबलः । उवाह तां सपुत्रां वै सिन्धोः पारं जगाम ह
गत्वा तां गरुडः प्राह ब्रूहि मातर्नमोऽस्तु ते । कथं मुच्येत मे माता दासीभावादसंशयम्
कद्रूरुवाच अमृतं देवलोकात्त्वं बलादानीय मे सुतान् । समर्पय सुताद्याशु मातरं मोचयाबलाम्
व्यास उवाच इत्युक्तः प्रययौ शीघ्रमिन्द्रलोकं महाबलः । कृत्वा युद्धं जहाराशु सुधाकुम्भं खगोत्तमः
समानीयामृतं मात्रे वैनतेयः समर्पयत् । मोचिता विनता तेन दासीभावादसंशयम्
अमृतं सञ्जहारेन्द्रः स्नातुं सर्पा यदा गताः । दासीभावाद्विनिर्मुक्ता विनता विपतेर्बलात्
तत्रास्तीर्णाः कुशास्तैस्तु लीढाः पन्नगनामकैः । द्विजिह्वास्ते सुसम्पन्नाः कुशाग्रस्पर्शमात्रतः
मात्रा शप्ताश्च ये नागा वासुकिप्रमुखाः शुचा । ब्रह्माणं शरणं गत्वा ते होचुः शापजं भयम्
तानाह भगवान्ब्रह्मा जरत्कारुर्महामुनिः । वासुकेर्भगिनीं तस्मै अर्पयध्वं सनामिकाम्
तस्यां यो जायते पुत्रः स वस्त्राता भविष्यति । आस्तीक इति नामासौ भविता नात्र संशयः
वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः शिवम् । वनं गत्वा सुतां तस्मै ददौ विनयपूर्वकम्
सनामां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम् । अप्रियं मे यदा कुर्यात्तदा तां सन्त्यजाम्यहम्
वाग्बन्धं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् । दत्त्वा च वासुकिः कामं भवनं स्वं जगाम ह
कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने । तया सह सुखं प्राप रममाणः परन्तप
एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः । भगिनी वासुकेस्तत्र संस्थिता वरवर्णिनी
न सम्बोधयितव्योऽहं त्वया कान्ते कथञ्चन । इत्युक्त्वा तु गतो निद्रां मुनिस्तां सुदतीं तदा
रविरस्तगिरिं प्राप्तः सन्ध्याकाल उपस्थिते । किं करोमि न मे शान्तिस्त्यजेन्मां बोधितः पुनः