पिता यस्य गतिं घोरां प्राप्तः पन्नगपीडितः । अद्याहं मखमारभ्य करोम्यपचितिं पितुः
हत्वा सर्पानसन्दिग्धो दीप्यमाने विभावसौ । आहूय मन्त्रिणः सर्वान् राजा वचनमब्रवीत्
कुर्वन्तु यज्ञसम्भारं यथार्हं मन्त्रिसत्तमाः । गङ्गातीरे शुभां भूमिं मापयित्वा द्विजोत्तमैः
कुर्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम् । वेदी यज्ञस्य कर्तव्या ममाद्य सचिवाः खलु
तदङ्गत्वे विधेयो वै सर्पसत्रः सुविस्तरः । तक्षकस्तु पशुस्तत्र होतोत्तङ्को महामुनिः
शीघ्रमाहूयतां विप्राः सर्वज्ञा वेदपारगाः । सूत उवाच मन्त्रिणस्तु तदा चक्रुर्भूपवाक्यैर्विचक्षणाः
यज्ञस्य सर्वसम्भारं वेदीं यज्ञस्य विस्तृताम् । हवने वर्तमाने तु सर्पाणां तक्षको गतः
इन्द्रं प्रति भयार्तोऽहं त्राहि मामिति चाब्रवीत् । भयभीतं समाश्वास्य स्वासने सन्निवेश्य च
ददावभयमत्यर्थं निर्भयो भव पन्नग । तमिन्द्रशरणं ज्ञात्वा मुनिर्दत्ताभयं तथा
उत्तङ्कोऽह्वयदुद्विग्नः सेन्द्रं कृत्वा निमन्त्रणम् । स्मृतस्तदा तक्षकेण यायावरकुलोद्भवः
आस्तीको नाम धर्मात्मा जरत्कारुसुतो मुनिः । तत्रागत्य मुनेर्बालस्तुष्टाव जनमेजयम्
राजा तमर्चयामास दृष्ट्वा बालं सुपण्डितम् । अर्चयित्वा नृपस्तं तु छन्दयामास वाञ्छितैः
स तु वव्रे महाभाग यज्ञोऽयं विरमत्विति । सत्यबद्धो नृपस्तेन प्रार्थितश्च पुनस्तथा
होमं निवर्तयामास सर्पाणां मुनिवाक्यतः । भारतं श्रावयामास वैशम्पायन विस्तरात्
श्रुत्वापि नृपतिः कामं न शान्तिमभिजग्मिवान् । व्यासं पप्रच्छ भूपालो मम शान्तिः कथं भवेत्
मनोऽतिदह्यते कामं किं करोमि वदस्व मे । पिता मे दुर्भगस्यैव मृतः पार्थसुतात्मजः
क्षत्रियाणां महाभाग सङ्ग्रामे मरणं वरम् । रणे वा मरणं व्यास गृहे वा विधिपूर्वकम्
मरणं न पितुर्मेऽभूदन्तरिक्षे मृतोऽवशः । शान्त्युपायं वदस्वात्र त्वं च सत्यवतीसुत
यथा स्वर्गं व्रजेदाशु पिता मे दुर्गतिं गतः
श्रोतृप्रवक्तृप्रसङ्गः सूत उवाच तच्छ्रुत्वा वचनं तस्य व्यासः सत्यवतीसुतः । उवाच वचनं तत्र सभायां नृपतिं च तम्
व्यास उवाच शृणु राजन् प्रवक्ष्यामि पुराणं गुह्यमद्भुतम् । पुण्यं भागवतं नाम नानाख्यानयुतं शिवम्
अध्यापितं मया पूर्वं शुकायात्मसुताय वै । श्रावयामि नृप त्वां हि रहस्यं परमं मम
धर्मार्थकाममोक्षाणां कारणं श्रवणात्किल । शुभद सुखदं नित्यं सर्वागमसमुद्धृतम्
जनमेजय उवाच आस्तीकोऽयं सुतः कस्य विघ्नार्थं कथमागतः । प्रयोजनं किमत्रास्य सर्पाणां रक्षणे प्रभो
कथयैतन्महाभाग विस्तरेण कथानकम् । पुराणं च तथा सर्वं विस्तराद्वद सुव्रत
व्यास उवाच जरत्कारुर्मुनिः शान्तो न चकार गृहाश्रमम् । तेन दृष्टा वने गर्ते लम्बमाना स्वपूर्वजाः
ततस्तमाहुः कुरु पुत्र दारा- न्यथा च नः स्यात्परमा हि तृप्तिः । स्वर्गे व्रजामः खलु दुःखमुक्ता वयं सदाचारयुते सुते वै
स तानुवाचाथ लभे समाना- मयाचितां चातिवशानुगां च । तदा गृहारम्भमहं करोमि ब्रवीमि तथ्यं मम पूर्वजा वै
इत्युक्त्वा ताञ्जरत्कारुर्गतस्तीर्थान्प्रति द्विजः । तदैव पन्नगाः शप्ता मात्राग्नौ निपतन्त्विति
कश्यपस्य मुनेः पत्न्यौ कद्रूश्च विनता तथा । दृष्ट्वादित्यरथे चाश्वमूचतुश्च परस्परम्