परीक्षितसुतं मत्वा तं नृपं समुपागतः । कार्याकार्यं न जानासि समये नृपसत्तम
अकर्तव्यं करोष्यद्य कर्तव्यं न करोषि वै । किं त्वां सम्प्रार्थयाम्यद्य गतामर्षं निरुद्यमम्
अवैरज्ञमतन्त्रज्ञं बालचेष्टासमन्वितम् । जनमेजय उवाच किं वैरं न मया ज्ञातं न किं प्रतिकृतं मया
तद्वद त्वं महाभाग करोमि यदनन्तरम् । उत्तङ्क उवाच पिता ते निहतो भूप तक्षकेण दुरात्मना
मन्त्रिणस्त्वं समाहूय पृच्छ स्वपितृनाशनम् । सूत उवाच तच्छ्रुत्वा वचनं राजा पप्रच्छ मन्त्रिसत्तमान्
ऊचुस्ते द्विजशापेन दष्टः सर्पेण वै मृतः । जनमेजय उवाच शापोऽत्र कारणं राज्ञः शप्तस्य मुनिना किल
तक्षकस्य तु को दोषो ब्रूहि मे मुनिसत्तम । उत्तङ्क उवाच तक्षकेण धनं दत्त्वा कश्यपः सन्निवारितः
न स किं तक्षको वैरी पितृहा तव भूपते । भार्या रुरोः पुरा भूप दष्टा सर्पेण सा मृता
अविवाहिता तु मुनिना जीविता च पुनः प्रिया । रुरुणापि कृता तत्र प्रतिज्ञा चातिदारुणा
यं यं सर्पं प्रपश्यामि तं तं हन्म्यायुधेन वै । एवं कृत्वा प्रतिज्ञां स शस्त्रपाणी रुरुस्तदा
व्यचरत्पृथिवीं राजन्निघ्नन्सर्पान्यतस्ततः । एकदा स वने घोरं डुण्डुभं जरसान्वितम्
अपश्यद्दण्डमुद्यम्य हन्तुं तं समुपाययौ । अभ्यहन्रुषितो विप्रस्तमुवाचाथ डुण्डुभः
नापराध्नोमि ते विप्र कस्मान्मामभिहंसि वै । रुरुरुवाच प्राणप्रिया मे दयिता दष्टा सर्पेण सा मृता
प्रतिज्ञेयं तदा सर्प दुःखितेन मया कृता । डुण्डुभ उवाच नाहं दशामि तेऽन्ये वै ये दशन्ति भुजङ्गमाः
शरीरसमयोगेन न मां हिंसितुमर्हसि । उत्तङ्क उवाच श्रुत्वा तां मानुषीं वाणीं सर्पेणोक्तां मनोहराम्
रुरुः पप्रच्छ कोऽसि त्वं कस्माद्डुण्डुभतां गतः । सर्प उवाच ब्राह्मणोऽहं पुरा विप्र सखा मे खगमाभिधः
विप्रो धर्मभृतां श्रेष्ठः सत्यवादी जितेन्द्रियः । स मया वञ्जितो मौर्ख्यात्सर्पं कृत्वा च तार्णकम्
भयं च प्रापितोऽत्यर्थमग्निहोत्रगृहे स्थितः । तेन भीतेन शप्तोऽहं विह्वलेनातिवेपिना
भव सर्पो मन्दबुद्धे येनाहं धर्षितस्त्वया । मया प्रसादितोऽत्यर्थं सर्पेणासौ द्विजोत्तमः
मामुवाचाथ तत्क्रोधात्किञ्चिच्छान्तिमवाप्य च । रुरुस्ते मोचिता शापस्यास्य सर्प भविष्यति
प्रमतेस्तु सुतो नूनमिति मां सोऽब्रवीद्वचः । सोऽहं सर्पो रुरुस्त्वं च शृणु मे परमं वचः
अहिंसा परमो धर्मो विप्राणां नात्र संशयः । दया सर्वत्र कर्तव्या ब्राह्मणेन विजानता
यज्ञादन्यत्र विप्रेन्द्र न हिंसा याज्ञिको मता । सूत उवाच सर्पयोनेर्विनिर्मुक्तो बाह्मणोऽसौ रुरुस्ततः
कृत्वा तस्य च शापान्तं परित्यक्तं च हिंसनम् । विवाहिता तेन बाला मृता सज्जीविता पुनः
कदनं सर्वसर्पाणां कृतं वैरमनुस्मरन् । त्वं तु वैरं समुत्सृज्य वर्तसे पन्नगेष्वथ
विमन्युर्भरतश्रेष्ठ पितृघातकरेषु वै । अन्तरिक्षे मृतस्तातः स्नानदानविवर्जितः
तस्योद्धारं च राजेन्द्र कुरु हत्वाथ पन्नगान् । पितुर्वैरं न जानाति जीवन्नेव मृतो हि सः
दुर्गतिस्ते पितुस्तावद्यावत्तान्न हनिष्यसि । अम्बामखमिषं कृत्वा कुरु यज्ञं नृपोत्तम
सर्पसत्रं महाराज पितुर्वैरमनुस्मरन् । सूत उवाच इति तस्य वचः श्रुत्वा राजा जन्मेजयस्तदा
नेत्राभ्यामश्रुपातं च चकारातीव दुःखितः । धिङ्मामस्तु सुदुर्बुद्धेर्वृथा मानकरस्य वै