प्राप्ते चैकादशे वर्षे तस्मै कुलपुरोहितः । यथोचितां ददौ विद्यां जग्राह स यथोचिताम्
धनुर्वेदं कृपः पूर्णं ददावस्मै सुसंस्कृतम् । अर्जुनाय यथा द्रोणः कर्णाय भार्गवो यथा
सम्प्राप्तविद्यो बलवान्वभूव दुरतिक्रमः । धनुर्वेदे तथा वेदे पारगः परमार्थवित्
धर्मशास्त्रार्थकुशलः सत्यवादी जितेन्द्रियः । चकार राज्यं धर्मात्मा पुरा धर्मसुतो यथा
ततः सुवर्णवर्माख्यो राजा काशिपतिः किल । वपुष्टमां शुभा कन्यां ददौ पारीक्षिताय च
स तां प्राप्यासितापाङ्गीं मुमुदे जनमेजयः । काशिराजसुतां कान्तां प्राप्य राजा यथा पुरा
विचित्रवीर्यो मुमुदे सुभद्रां च यथार्जुनः । विजहार महीपालो वनेषूपवनेषु च
तया कमलपत्राक्ष्या शच्या शतक्रतुर्यथा । प्रजास्तस्य सुसन्तुष्टा बभूवुः सुखलालिताः
मन्त्रिणः कर्मकुशलाश्चक्रुः कार्याणि सर्वशः । एतस्मिन्नेव काले तु मुनिरुत्तङ्कनामकः
तक्षकेण परिक्लिष्टो हस्तिनापुरमभ्यगात् । वैरस्यापचितिं कोऽस्य प्रकुर्यादिति चिन्तयन्
परीक्षितसुतं मत्वा तं नृपं समुपागतः । कार्याकार्यं न जानासि समये नृपसत्तम
अकर्तव्यं करोष्यद्य कर्तव्यं न करोषि वै । किं त्वां सम्प्रार्थयाम्यद्य गतामर्षं निरुद्यमम्
अवैरज्ञमतन्त्रज्ञं बालचेष्टासमन्वितम् । जनमेजय उवाच किं वैरं न मया ज्ञातं न किं प्रतिकृतं मया
तद्वद त्वं महाभाग करोमि यदनन्तरम् । उत्तङ्क उवाच पिता ते निहतो भूप तक्षकेण दुरात्मना
मन्त्रिणस्त्वं समाहूय पृच्छ स्वपितृनाशनम् । सूत उवाच तच्छ्रुत्वा वचनं राजा पप्रच्छ मन्त्रिसत्तमान्
ऊचुस्ते द्विजशापेन दष्टः सर्पेण वै मृतः । जनमेजय उवाच शापोऽत्र कारणं राज्ञः शप्तस्य मुनिना किल
तक्षकस्य तु को दोषो ब्रूहि मे मुनिसत्तम । उत्तङ्क उवाच तक्षकेण धनं दत्त्वा कश्यपः सन्निवारितः
न स किं तक्षको वैरी पितृहा तव भूपते । भार्या रुरोः पुरा भूप दष्टा सर्पेण सा मृता
अविवाहिता तु मुनिना जीविता च पुनः प्रिया । रुरुणापि कृता तत्र प्रतिज्ञा चातिदारुणा
यं यं सर्पं प्रपश्यामि तं तं हन्म्यायुधेन वै । एवं कृत्वा प्रतिज्ञां स शस्त्रपाणी रुरुस्तदा
व्यचरत्पृथिवीं राजन्निघ्नन्सर्पान्यतस्ततः । एकदा स वने घोरं डुण्डुभं जरसान्वितम्
अपश्यद्दण्डमुद्यम्य हन्तुं तं समुपाययौ । अभ्यहन्रुषितो विप्रस्तमुवाचाथ डुण्डुभः
नापराध्नोमि ते विप्र कस्मान्मामभिहंसि वै । रुरुरुवाच प्राणप्रिया मे दयिता दष्टा सर्पेण सा मृता
प्रतिज्ञेयं तदा सर्प दुःखितेन मया कृता । डुण्डुभ उवाच नाहं दशामि तेऽन्ये वै ये दशन्ति भुजङ्गमाः
शरीरसमयोगेन न मां हिंसितुमर्हसि । उत्तङ्क उवाच श्रुत्वा तां मानुषीं वाणीं सर्पेणोक्तां मनोहराम्
रुरुः पप्रच्छ कोऽसि त्वं कस्माद्डुण्डुभतां गतः । सर्प उवाच ब्राह्मणोऽहं पुरा विप्र सखा मे खगमाभिधः
विप्रो धर्मभृतां श्रेष्ठः सत्यवादी जितेन्द्रियः । स मया वञ्जितो मौर्ख्यात्सर्पं कृत्वा च तार्णकम्
भयं च प्रापितोऽत्यर्थमग्निहोत्रगृहे स्थितः । तेन भीतेन शप्तोऽहं विह्वलेनातिवेपिना
भव सर्पो मन्दबुद्धे येनाहं धर्षितस्त्वया । मया प्रसादितोऽत्यर्थं सर्पेणासौ द्विजोत्तमः
मामुवाचाथ तत्क्रोधात्किञ्चिच्छान्तिमवाप्य च । रुरुस्ते मोचिता शापस्यास्य सर्प भविष्यति