गतेषु तेषु नागेषु विप्रवेषावृतेषु च । फलान्यादाय राजासौ सचिवानिदमब्रवीत्
सुहृदो भक्षयन्त्वद्य फलान्येतानि सर्वशः । अद्म्यहं चैकमेतद्वै फलं विप्रार्पितं महत्
इत्युक्त्वा तत्फलं दत्त्वा सुहृद्भ्यश्चोत्तरासुतः । करे कृत्वा फलं पक्वं ददार नृपतिः स्वयम्
विदारितं फलं राज्ञा तत्र कृमिरभूदणुः । स कृष्णनयनस्ताम्रो दृष्टो भूपतिना स्वयम्
तं दृष्ट्वा नृपतिः प्राह सचिवान्विस्मितानथ । अस्तमभ्येति सविता विषादद्य न मे भयम्
अङ्गीकरोमि तं शापं कृमिको मां दशत्वयम् । एवमुक्त्वा स राजेन्द्रो ग्रीवायां संन्यवेशयत्
अस्तं याते दिवानाथे धृतः कण्ठेऽथ कीटकः । तक्षकस्तु तदा जातः कालरूपी भयानकः
राजा संवेष्टितस्तेन दष्टश्चापि महीपतिः । मन्त्रिणो विस्मयं प्राप्ता रुरुदुर्भृशदुःखिताः
घोररूपमहिं वीक्ष्य दुद्रुवुस्ते भयार्दिताः । चुक्रुशू रक्षकाः सर्वे हाहाकारो महानभूत्
वेष्टितो भोगिभोगेन विनष्टबहुपौरुषः । नोवाच नृपतिः किञ्चिन्न चचालोत्तरासुतः
उत्थिताग्निशिखा घोरा विषजा तक्षकाननात् । प्रजज्वाल नृपं त्वाशु गतप्राणं चकार ह
हत्वाशु जीवितं राज्ञस्तक्षको गगने गतः । जगद्दग्धं तु कुर्वाणं ददृशुस्तं जना इह
स पपात गतप्राणो राजा दग्ध इव द्रुमः । चुकुशुश्च जनाः सर्वे मृतं दृष्ट्वा नराधिपम्
सर्पसत्रवर्णनम् सूत उवाच गतप्राणं तु राजानं बालं पुत्रं समीक्ष्य च । चक्रुश्च मन्त्रिणः सर्वे परलोकस्य सत्क्रियाः
गङ्गातीरे दग्धदेहं भस्मप्रायं महीपतिम् । अगुरुभिश्चाभियुक्तायां चितायामध्यरोपयन्
दुर्मरणे मृतस्यास्य चकुश्चैवौर्ध्वदैहिकीम् । क्रियां पुरोहितास्तस्य वेदमन्त्रैर्विधानतः
ददुर्दानानि विप्रेभ्यो गाः सुवर्णं यथोचितम् । अन्नं बहुविधं तत्र वस्त्राणि विविधानि च
सुमुहूर्ते सुतं बालं प्रजानां प्रीतिवर्धनम् । सिंहासने शुभे तत्र मन्त्रिणः संन्यवेशयन्
पौरा जानपदा लोकाश्चक्रुस्तं नृपतिं शिशुम् । जनमेजयनामानं राजलक्षणसंयुतम्
धात्रेयी शिक्षयामास राजचिह्नानि सर्वशः । दिने दिने वर्धमानः स बभूव महामतिः
प्राप्ते चैकादशे वर्षे तस्मै कुलपुरोहितः । यथोचितां ददौ विद्यां जग्राह स यथोचिताम्
धनुर्वेदं कृपः पूर्णं ददावस्मै सुसंस्कृतम् । अर्जुनाय यथा द्रोणः कर्णाय भार्गवो यथा
सम्प्राप्तविद्यो बलवान्वभूव दुरतिक्रमः । धनुर्वेदे तथा वेदे पारगः परमार्थवित्
धर्मशास्त्रार्थकुशलः सत्यवादी जितेन्द्रियः । चकार राज्यं धर्मात्मा पुरा धर्मसुतो यथा
ततः सुवर्णवर्माख्यो राजा काशिपतिः किल । वपुष्टमां शुभा कन्यां ददौ पारीक्षिताय च
स तां प्राप्यासितापाङ्गीं मुमुदे जनमेजयः । काशिराजसुतां कान्तां प्राप्य राजा यथा पुरा
विचित्रवीर्यो मुमुदे सुभद्रां च यथार्जुनः । विजहार महीपालो वनेषूपवनेषु च
तया कमलपत्राक्ष्या शच्या शतक्रतुर्यथा । प्रजास्तस्य सुसन्तुष्टा बभूवुः सुखलालिताः
मन्त्रिणः कर्मकुशलाश्चक्रुः कार्याणि सर्वशः । एतस्मिन्नेव काले तु मुनिरुत्तङ्कनामकः
तक्षकेण परिक्लिष्टो हस्तिनापुरमभ्यगात् । वैरस्यापचितिं कोऽस्य प्रकुर्यादिति चिन्तयन्