आसन्नमृत्युं राजानं ज्ञात्वा ध्यानेन कश्यपः । गृहं ययौ स धर्मात्मा धनमादाय तक्षकात्
निवर्त्य कश्यपं सर्पः सप्तमे दिवसे नृपम् । हन्तुकामो जगामाशु नगरं नागसाह्वयम्
शुश्राव नगरस्यान्ते प्रासादस्थं परीक्षितम् । मणिमन्त्रौषधैः कामं रक्ष्यमाणमतन्द्रितम्
चिन्ताविष्टस्तदा नागो विप्रशापभयाकुलः । चिन्तयामास योगेन प्रविशेयं गृहं कथम्
वञ्जयामि कथं चैनं राजानं पापकारिणम् । विप्रशापाद्धतं मूढं विप्रपीडाकरं शठम्
पाण्डवानां कुले जातः कोऽपि नैतादृशो भवेत् । तापसस्य गले येन मृतः सर्पो निवेशितः
कृत्वा विगर्हितं कर्म जानन्कालगतिं नृपः । रक्षकान्भवने कृत्वा प्रासादमभिगम्य च
मृत्युं वञ्चयते राजा वर्ततेऽद्य निराकुलः । तं कथं धक्षयिष्यामि विप्रवाक्येन चोदितः
न जानाति च मन्दात्मा मरणं ह्यनिवर्तनम् । तेनासौ रक्षकान्स्थाप्य सौधारूढोऽद्य मोदते
यदि वै विहितो मृत्युर्दैवेनामिततेजसा । स कथं परिवर्तेत कृतैर्यत्नैस्तु कोटिभिः
पाण्डवस्य च दायादो जानन्मृत्युं गतं नृपः । जीवने मतिमास्थाय स्थितः स्थाने निराकुलः
दानपुण्यादिकं राजा कर्तुमर्हति सर्वथा । धर्मेण हन्यते व्याधिर्येनायुः शाश्वतं भवेत्
नोचेन्मृत्युविधिं कृत्वा स्नानदानादिकाः क्रियाः । मरणं स्वर्गलोकाय नरकायान्यथा भवेतू
द्विजपीडाकृतं पापं पृथग्वास्य च भूपतेः । विप्रशापस्तथा घोर आसन्ने मरणे किल
न कोऽपि ब्राह्मणः पार्श्वे य एनं प्रतिबोधयेत् । वेधसा विहितो मृत्युरनिवार्यस्तु सर्वथा
इति सञ्चिन्त्य सर्पोऽसौ स्वान्नागान्निकटे स्थितान् । कृत्वा तापसवेषांस्तान्प्राहिणोत्सुभुजङ्गमान्
फलमूलादिकं गृह्य राज्ञे नागोऽथ तक्षकः । स्वयं च कीटरूपेण फलमध्ये ससार ह
निर्गतास्ते तदा नागाः फलान्यादाय सत्वराः । ते राजभवनं प्राप्य स्थिताः प्रासादसन्निधौ
रक्षकास्तापसान्दृष्ट्वा पप्रच्छुस्तच्चिकीर्षितम् । ऊचुस्ते भूपतिं द्रष्टुं प्राप्ताः स्मोऽद्य तपोवनात्
अभिमन्युसुतं वीरं कुलार्कं चारुदर्शनम् । परिवर्धयितुं प्राप्ता मन्त्रैराथर्वणैस्तथा
निवेदयध्वं राजानं दर्शनार्थागतान्मुनीन् । कृत्वाभिषेकान्यास्यामो दत्त्वा मिष्टफलानिच
भारतानां कुले वापि न दृष्टा द्वाररक्षकाः । न श्रुतं तापसानां तु राज्ञोऽसन्दर्शनं किल
आरोहामो वयं तत्र यत्र राजा परीक्षितः । आशीर्भिर्वर्धयित्वैनं दत्ताज्ञाः प्रव्रजामहे
सूत उवाच इत्याकर्ण्य वचस्तेषां तापसानां तु रक्षकाः । प्रत्यूचुस्तान् द्विजान्मत्वा निदेशं भूपतेर्यथा
नाद्य वो दर्शनं विप्रा राज्ञः स्यादिति नो मतिः । श्वः सर्वतापसैरत्र त्वागन्तव्यं नृपालये
अनारोहस्तु प्रासादो विप्राणां मुनिसत्तमाः । विप्रशापभयाद्राज्ञा विहितोऽस्ति न संशयः
तदोचुस्तानथो विप्राः फलमूलजलानि च । विप्राशिषश्च राज्ञेऽथ ग्राहयन्तु सुरक्षकाः
ते गत्वा नृपतिं प्रोचुस्तापसानागताञ्जनाः । राजोवाचानयध्वं वै फलमूलादिकं च यत्
पृच्छध्वं तापसान्कार्यं प्रातरागमनं पुनः । प्रणामं कथयध्वं मे नाद्य सन्दर्शनं मम
ते गत्वाथ समादाय फलमूलादिकं च यत् । राज्ञे समर्पयामासुर्बहुमानपुरःसरम्