कश्यप उवाच वित्तार्थी नृपतिं मत्वा शप्तं पन्नग निःसृतः । गृहादहं चोपकर्तुं विद्यया नृपसत्तमम्
तक्षक उवाच वित्तं गृहाण विप्रेन्द्र यावदिच्छसि पार्थिवात् । ददामि स्वगृहं याहि सकामोऽहं भवाम्यतः
सूत उवाच तच्छ्रुत्वा वचनं तस्य कश्यपः परमार्थवित् । चिन्तयामास मनसा किं करोमि पुनः पुनः
धनं गहीत्वा स्वगृहं प्रयामि यद्यहं पुनः । भविष्यति न मे कीर्तिर्लोके लोभसमाश्रयात्
जीवितेऽथ नृपश्रेष्ठे कीर्तिः स्यादचला मम । धनप्राप्तिश्च बहुधा भवेत्पुण्यं च जीवनात्
रक्षणीयं यशः कामं धिग्धनं यशसा विना । सर्वस्वं रघुणा पूर्वं दत्तं विप्राय कीर्तये
हरिश्चन्द्रेण कर्णेन कीर्त्यर्थं बहुविस्तरम् । उपेक्षेयं कथं भूपं दह्यमानं विषाग्निना
जीवितेऽद्य मया राज्ञि सुखं सर्वजनस्य च । अराजके प्रजानाशो भविता नात्र संशयः
प्रजानाशस्य पापं मे भविष्यति मृते नृपे । अपकीर्तिश्च लोकेषु धनलोभाद्भविष्यति
इति सञ्चिन्त्य मनसा ध्यानं कृत्वा स कश्यपः । गतायुषं च नृपतिं ज्ञातवाम्बुद्धिमत्तरः
आसन्नमृत्युं राजानं ज्ञात्वा ध्यानेन कश्यपः । गृहं ययौ स धर्मात्मा धनमादाय तक्षकात्
निवर्त्य कश्यपं सर्पः सप्तमे दिवसे नृपम् । हन्तुकामो जगामाशु नगरं नागसाह्वयम्
शुश्राव नगरस्यान्ते प्रासादस्थं परीक्षितम् । मणिमन्त्रौषधैः कामं रक्ष्यमाणमतन्द्रितम्
चिन्ताविष्टस्तदा नागो विप्रशापभयाकुलः । चिन्तयामास योगेन प्रविशेयं गृहं कथम्
वञ्जयामि कथं चैनं राजानं पापकारिणम् । विप्रशापाद्धतं मूढं विप्रपीडाकरं शठम्
पाण्डवानां कुले जातः कोऽपि नैतादृशो भवेत् । तापसस्य गले येन मृतः सर्पो निवेशितः
कृत्वा विगर्हितं कर्म जानन्कालगतिं नृपः । रक्षकान्भवने कृत्वा प्रासादमभिगम्य च
मृत्युं वञ्चयते राजा वर्ततेऽद्य निराकुलः । तं कथं धक्षयिष्यामि विप्रवाक्येन चोदितः
न जानाति च मन्दात्मा मरणं ह्यनिवर्तनम् । तेनासौ रक्षकान्स्थाप्य सौधारूढोऽद्य मोदते
यदि वै विहितो मृत्युर्दैवेनामिततेजसा । स कथं परिवर्तेत कृतैर्यत्नैस्तु कोटिभिः
पाण्डवस्य च दायादो जानन्मृत्युं गतं नृपः । जीवने मतिमास्थाय स्थितः स्थाने निराकुलः
दानपुण्यादिकं राजा कर्तुमर्हति सर्वथा । धर्मेण हन्यते व्याधिर्येनायुः शाश्वतं भवेत्
नोचेन्मृत्युविधिं कृत्वा स्नानदानादिकाः क्रियाः । मरणं स्वर्गलोकाय नरकायान्यथा भवेतू
द्विजपीडाकृतं पापं पृथग्वास्य च भूपतेः । विप्रशापस्तथा घोर आसन्ने मरणे किल
न कोऽपि ब्राह्मणः पार्श्वे य एनं प्रतिबोधयेत् । वेधसा विहितो मृत्युरनिवार्यस्तु सर्वथा
इति सञ्चिन्त्य सर्पोऽसौ स्वान्नागान्निकटे स्थितान् । कृत्वा तापसवेषांस्तान्प्राहिणोत्सुभुजङ्गमान्
फलमूलादिकं गृह्य राज्ञे नागोऽथ तक्षकः । स्वयं च कीटरूपेण फलमध्ये ससार ह
निर्गतास्ते तदा नागाः फलान्यादाय सत्वराः । ते राजभवनं प्राप्य स्थिताः प्रासादसन्निधौ
रक्षकास्तापसान्दृष्ट्वा पप्रच्छुस्तच्चिकीर्षितम् । ऊचुस्ते भूपतिं द्रष्टुं प्राप्ताः स्मोऽद्य तपोवनात्
अभिमन्युसुतं वीरं कुलार्कं चारुदर्शनम् । परिवर्धयितुं प्राप्ता मन्त्रैराथर्वणैस्तथा