स्तानसन्ध्यादिकं कर्म तत्रैव विनिवर्त्य च । राजकार्याणि सर्वाणि तत्रस्थश्चाकरोन्नृपः
मन्त्रिभिः सह सम्मन्त्र्य गणयन्दिवसानपि । कश्चिच्च कश्यपो नाम ब्राह्मणो मन्त्रिसत्तमः
शुश्राव च तथा शापं प्राप्तं राज्ञा महात्मना । स धनार्थी द्विजश्रेष्ठः कश्यपः समचिन्तयत्
व्रजामि तत्र यत्रास्ते शप्तो राजा द्विजेन ह । इति कृत्वा मतिं विप्रः स्वगृहान्निःसृतः पथि
कश्यपो मन्त्रविद्विद्वान्धनार्थी मुनिसत्तमः
परीक्षिन्मरणम् सूत उवाच तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम् । शप्तं ज्ञात्वा गृहात्तूर्णं निःसृतः पुरुषोत्तमः
वृद्धब्राह्मणवेषेण तक्षकः पथि निर्गतः । अपश्यत्कश्यपं मार्गे व्रजन्तं नृपतिं प्रति
तमपृच्छत्पन्नगोऽसौ ब्राह्मणं मन्त्रवादिनम् । क्व भवांस्त्वरितो याति किञ्च कार्यं चिकीर्षति
कश्यप उवाच परीक्षितं नृपश्रेष्ठं तक्षकश्च प्रधक्ष्यति । तत्राहं त्वरितो यामि नृपं कर्तुमपज्वरम्
मन्त्रोऽस्ति मम विप्रेन्द्र विषनाशकरः किल । जीवयिष्याम्यहं तं वै जीवितव्येऽधुना किल
तक्षक उवाच अहं स पन्नगो ब्रह्मंस्तं धक्ष्यामि महीपतिम् । निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्
कश्यप उवाच अहं दष्टं त्वया सर्प नृपं शप्तं द्विजेन वै । जीवयिष्याम्यसन्देहं कामं मन्त्रबलेन वै
तक्षक उवाच यदि त्वं जीवितुं यासि मया दष्टं नृपोत्तमम् । मन्त्रशक्तिबलं विप्र दर्शय त्वं ममानघ
धक्ष्याम्येनं च न्यग्रोधं विषदंष्ट्राभिरद्य वै । कश्यप उवाच जीवयिष्ये त्वया दष्टं दग्धं वा पन्नगोत्तम
सूत उवाच अदशत्पन्नगो वृक्षं भस्मसाच्च चकार तम् । उवाच कश्यपं भूयो जीवयैनं द्विजोत्तम
दृष्ट्वा भस्मीकृतं वृक्षं पन्नगेन विषाग्निना । सर्वं भस्म समाहृत्य कश्यपो वाक्यमब्रवीत्
पश्य मन्त्रबलं मेऽद्य न्यग्रोधं पन्नगोत्तम । जीवयाम्यद्य वृक्षं वै पश्यतस्ते महाविष
इत्युक्त्वा जलमादाय कश्यपो मन्त्रवित्तमः । सिषेच भस्मराशिं तं मन्त्रितेनैव वारिणा
तद्वारिसेचनाज्जातो न्यग्रोधः पूर्ववच्छुभः । विस्मयं तक्षकः प्राप्तो दृष्ट्वा तं जीवितं नगम्
तमाह कश्यपं नागः किमर्थं ते परिश्रमः । सम्पादयामि तं कामं ब्रूहि वाडव वाञ्छितम्
कश्यप उवाच वित्तार्थी नृपतिं मत्वा शप्तं पन्नग निःसृतः । गृहादहं चोपकर्तुं विद्यया नृपसत्तमम्
तक्षक उवाच वित्तं गृहाण विप्रेन्द्र यावदिच्छसि पार्थिवात् । ददामि स्वगृहं याहि सकामोऽहं भवाम्यतः
सूत उवाच तच्छ्रुत्वा वचनं तस्य कश्यपः परमार्थवित् । चिन्तयामास मनसा किं करोमि पुनः पुनः
धनं गहीत्वा स्वगृहं प्रयामि यद्यहं पुनः । भविष्यति न मे कीर्तिर्लोके लोभसमाश्रयात्
जीवितेऽथ नृपश्रेष्ठे कीर्तिः स्यादचला मम । धनप्राप्तिश्च बहुधा भवेत्पुण्यं च जीवनात्
रक्षणीयं यशः कामं धिग्धनं यशसा विना । सर्वस्वं रघुणा पूर्वं दत्तं विप्राय कीर्तये
हरिश्चन्द्रेण कर्णेन कीर्त्यर्थं बहुविस्तरम् । उपेक्षेयं कथं भूपं दह्यमानं विषाग्निना
जीवितेऽद्य मया राज्ञि सुखं सर्वजनस्य च । अराजके प्रजानाशो भविता नात्र संशयः
प्रजानाशस्य पापं मे भविष्यति मृते नृपे । अपकीर्तिश्च लोकेषु धनलोभाद्भविष्यति
इति सञ्चिन्त्य मनसा ध्यानं कृत्वा स कश्यपः । गतायुषं च नृपतिं ज्ञातवाम्बुद्धिमत्तरः