देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं ततः । देवदूत उवाच माकार्षीः साहसं ब्रह्मन्कथं जीवेन्मृता प्रिया
गतायुरेषा सुश्रोणी गन्धर्वाप्सरसोः सुता । अन्यां कामय चार्वङ्गीं मृतेयं चाविवाहिता
किं रोदिषि सुदुर्बुद्धे का प्रीतिस्तेऽनया सह । रुरुरुवाच देवदूत न चान्यां वै वरिष्याम्यहमङ्गनाम्
यदि जीवेन्न जीवेद्वा मर्तव्यं चाधुना मया । राजोवाच विदित्वेति हठं तस्य देवदूतो मुदान्वितः
उवाच वचनं तथ्यं सत्यं चातिमनोहरम् । उपायं शृणु विप्रेन्द्र विहितं यत्सुरैः पुरा
आयुषोऽर्धप्रदानेन जीवयाशु प्रमद्वराम् । रुरुरुवाच आयुषोऽर्धं प्रयच्छामि कन्यायै नात्र संशयः
अद्य प्रत्यावृतप्राणा प्रोत्तिष्ठतु मम प्रिया । विश्वावसुस्तदा तत्र विमानेन समागतः
ज्ञात्वा पुत्रीं मृतां चाशु स्वर्गलोकात्प्रमद्वराम् । ततो गन्धर्वराजश्च देवदूतश्च सत्तमः
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् । धर्मराज रुरोः पत्नी सुता विश्वावसोस्तथा
मृता प्रमद्वरा कन्या दष्टा सर्पेण चाधुना । सा रुरोरायुषोऽर्धेन मर्तुकामस्य सूर्यज
समुत्तिष्ठतु तन्वङ्गी व्रतचर्याप्रभावतः । धर्म उवाच विश्वावसुसुतां कन्यां देवदूत यदीच्छसि
उत्तिष्ठत्वायुषोऽर्धेन रुरुं गत्वा त्वमर्पय । राजोवाच एवमुक्तस्ततो गत्वा जीवयित्वा प्रमद्वराम्
रुरोः समर्पयामास देवदूतस्त्वरान्वितः । ततः शुभेऽह्नि विधिना रुरुणापि विवाहिता
इत्थं चोपाययोगेन मृताप्युज्जीविता तदा । उपायस्तु प्रकर्तव्यः सर्वथा शास्त्रसम्मतः
मणिमन्त्रौषधीभिश्च विधिवत्प्राणरक्षणे । इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्षकान्
कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् । आरुरोहोत्तरासूनुः सचिवैः सह तत्क्षणम्
मणिमन्त्रधराः शूराः स्थापितास्तत्र रक्षणे । प्रेषयामास भूपालो मुनिं गौरमुखं ततः
प्रसादार्थं सेवकस्य क्षमस्वेति पुनः पुनः । ब्राह्मणान्सिद्धमन्त्रज्ञान् रक्षणार्थमितस्ततः
मन्त्रिपुत्रः स्थितस्तत्र स्थापयामास दन्तिनः । न कश्चिदारुहेत्तत्र प्रासादे चातिरक्षिते
वातोऽपि न चरेत्तत्र प्रवेशे विनिवार्यते । भक्ष्यभोज्यादिकं राजा तत्रस्थश्च चकार सः
स्तानसन्ध्यादिकं कर्म तत्रैव विनिवर्त्य च । राजकार्याणि सर्वाणि तत्रस्थश्चाकरोन्नृपः
मन्त्रिभिः सह सम्मन्त्र्य गणयन्दिवसानपि । कश्चिच्च कश्यपो नाम ब्राह्मणो मन्त्रिसत्तमः
शुश्राव च तथा शापं प्राप्तं राज्ञा महात्मना । स धनार्थी द्विजश्रेष्ठः कश्यपः समचिन्तयत्
व्रजामि तत्र यत्रास्ते शप्तो राजा द्विजेन ह । इति कृत्वा मतिं विप्रः स्वगृहान्निःसृतः पथि
कश्यपो मन्त्रविद्विद्वान्धनार्थी मुनिसत्तमः
परीक्षिन्मरणम् सूत उवाच तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम् । शप्तं ज्ञात्वा गृहात्तूर्णं निःसृतः पुरुषोत्तमः
वृद्धब्राह्मणवेषेण तक्षकः पथि निर्गतः । अपश्यत्कश्यपं मार्गे व्रजन्तं नृपतिं प्रति
तमपृच्छत्पन्नगोऽसौ ब्राह्मणं मन्त्रवादिनम् । क्व भवांस्त्वरितो याति किञ्च कार्यं चिकीर्षति
कश्यप उवाच परीक्षितं नृपश्रेष्ठं तक्षकश्च प्रधक्ष्यति । तत्राहं त्वरितो यामि नृपं कर्तुमपज्वरम्
मन्त्रोऽस्ति मम विप्रेन्द्र विषनाशकरः किल । जीवयिष्याम्यहं तं वै जीवितव्येऽधुना किल