दष्टा तु पन्नगेनाथ सा ममार वराङ्गना । कोलाहलस्तदा जातो मृतां दृष्ट्वा प्रमद्वराम्
मिलिता मुनयः सर्वे चुक्रुशुः शोकसंयुताः । भूमौ तां पतितां दृष्ट्वा पिता तस्यातिदुःखितः
रुरोद विगतप्राणां दीप्यमानां सुतेजसा । रुरुः श्रुत्वा तदाक्रन्दं दर्शनार्थं समागतः
ददर्श पतितां तत्र सजीवामिव कामिनीम् । रुदन्तं स्थूलकेशं च दृष्ट्वान्यानृषिसत्तमान्
रुरुः स्थानाद्बहिर्गत्वा रुरोद विरहाकुलः । अहो दैवेन सर्पोऽयं प्रेषितः परमाद्भुतः
मम शर्मविघाताय दुःखहेतुरयं किल । किं करोमि क्व गच्छामि मृता मे प्राणवल्लभा
न वै जीवितुमिच्छामि वियुक्तः प्रिययानया । नालिङ्गिता वरारोहा न मया चुम्बिता मुखे
न पाणिग्रहणं प्राप्तं मन्दभाग्येन सर्वथा । लाजाहोमस्तथा चाग्नौ न कृतस्त्वनया सह
मानुष्यं धिगिदं कामं गच्छन्त्वद्य ममासवः । दुःखितस्य न वा मृत्युर्वाञ्छितः समुपैति हि
सुखं तर्हि कथं दिव्यमाप्यते भुवि वाञ्छितम् । प्रपतामि ह्रदे घोरे पावके प्रपताम्यहम्
विषमद्मि गले पाशं कृत्वा प्राणांस्त्यजाम्यहम् । विलप्यैवं रुरुस्तत्र विचार्य मनसा पुनः
उपायं चिन्तयामास स्थितस्तस्मिन्नदीतटे । मरणात्किं फलं मे स्यादात्महत्या दुरत्यया
दुःखितश्च पिता मे स्याज्जननी चातिदुःखिता । दैवस्तुष्टो भवेत्कामं दृष्ट्वा मां त्यक्तजीवितम्
सर्वः प्रमुदितश्च स्यान्मत्क्षये नात्र संशयः । उपकारः प्रियायाः कः परलोके भवेदपि
मृते मय्यात्मघातेन विरहात्पीडितेऽपि च । परलोके प्रिया सापि न मे स्यादात्मघातिनः
एतदर्थं मृते दोषा मयि नैवामृते पुनः । विमृश्यैव रुरुस्तत्र स्नात्वाचम्य शुचिः स्थितः
अब्रवीद्वचनं कृत्वा जलं पाणावसौ मुनिः । यन्मया सुकृतं किञ्चित्कृतं देवार्चनादिकम्
गुरवः पूजिता भक्त्या हुतं जप्तं तपः कृतम् । अधीतास्त्वखिला वेदा गायत्री संस्कृता यदि
रविराराधितस्तेन सञ्जीवतु मम प्रिया । यदि जीवेन्न मे कान्ता त्यजे प्राणानहं ततः
इत्युक्त्वा तज्जलं भूमौ चिक्षेपाराध्य देवताः । राजोवाच एवं विलपतस्तस्य भार्यया दुःखितस्य च
देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं ततः । देवदूत उवाच माकार्षीः साहसं ब्रह्मन्कथं जीवेन्मृता प्रिया
गतायुरेषा सुश्रोणी गन्धर्वाप्सरसोः सुता । अन्यां कामय चार्वङ्गीं मृतेयं चाविवाहिता
किं रोदिषि सुदुर्बुद्धे का प्रीतिस्तेऽनया सह । रुरुरुवाच देवदूत न चान्यां वै वरिष्याम्यहमङ्गनाम्
यदि जीवेन्न जीवेद्वा मर्तव्यं चाधुना मया । राजोवाच विदित्वेति हठं तस्य देवदूतो मुदान्वितः
उवाच वचनं तथ्यं सत्यं चातिमनोहरम् । उपायं शृणु विप्रेन्द्र विहितं यत्सुरैः पुरा
आयुषोऽर्धप्रदानेन जीवयाशु प्रमद्वराम् । रुरुरुवाच आयुषोऽर्धं प्रयच्छामि कन्यायै नात्र संशयः
अद्य प्रत्यावृतप्राणा प्रोत्तिष्ठतु मम प्रिया । विश्वावसुस्तदा तत्र विमानेन समागतः
ज्ञात्वा पुत्रीं मृतां चाशु स्वर्गलोकात्प्रमद्वराम् । ततो गन्धर्वराजश्च देवदूतश्च सत्तमः
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् । धर्मराज रुरोः पत्नी सुता विश्वावसोस्तथा
मृता प्रमद्वरा कन्या दष्टा सर्पेण चाधुना । सा रुरोरायुषोऽर्धेन मर्तुकामस्य सूर्यज