प्रत्यक्षं तत्र दृष्टान्तं पश्यन्तु सचिवाः किल । दिवि कोऽपि पृथिव्यां वा दृश्यते पुरुषः क्वचित्
दैवे मतिं समाधाय यस्तिष्ठेत्तु निरुद्यमः । विरक्तस्तु यतिर्भूत्वा भिक्षार्थं याति सर्वथा
गृहस्थानां गृहे काममाहूतो वाथवान्यथा । यदृच्छयोपपन्नं च क्षिप्तं केनापि वा मुखे
उद्यमेन विना चास्यादुदरे संविशेत्कथम् । प्रयत्नश्चोद्यमे कार्यो यदा सिद्धिं न याति चेत्
तदा दैवं स्थितं चेति चित्तमालम्बयेद्बुधः । मन्त्रिण ऊचुः को मुनिर्येन दत्त्वार्धमायुषो जीविता प्रिया
कथं मृता महाराज तन्नो ब्रूहि सविस्तरम् । राजोवाच भृगोर्भार्या वरारोहा पुलोमा नाम सुन्दरी
तस्यां तु च्यवनो नाम मुनिर्जातोऽतिविश्रुतः । च्यवनस्य च शर्यातेः सुकन्या नाम सुन्दरी
तस्यां जज्ञे सुतः श्रीमान्प्रमतिर्नाम विश्रुतः । प्रमतेस्तु प्रिया भार्या प्रतापी नाम विश्रुता
रुरुर्नाम सुतो जातस्तथा परमतापसः । तस्मिंश्च समये कश्चित्स्थूलकेशश्च विश्रुतः
बभूव तपसा युक्तो धर्मात्मा सत्यसम्मतः । एतस्मिन्नन्तरे मान्या मेनका च वराप्सराः
क्रीडां चक्रे नदीतीरे त्रिषु लोकेषु सुन्दरी । गर्भं विश्वावसोः प्राप्य निर्गता वरवर्णिनी
स्थूलकेशाश्रमे गत्वा विससर्ज वराप्सराः । कन्यकां च नदीतीरे त्रिषु लोकेषु सुन्दरीम्
दृष्ट्वानाथां तदा कन्यां जग्राह मुनिसत्तमः । पुपोष स्थूलकेशस्तु नाम्ना चक्रे प्रमद्वराम्
सा काले यौवनं प्राप्ता सर्वलक्षणसंयुता । रुरुर्दृष्ट्वाथ तां बालां कामबाणार्दितो ह्यभूत्
परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् परीक्षिदुवाच कामार्तः स मुनिर्गत्वा रुरुः सुप्तो निजाश्रमे । पिता पप्रच्छ दीनं तं किं रुरो विमना असि
स तमाहातिकामार्तः स्थूलकेशस्य चाश्रमे । कन्या प्रमद्वरा नाम सा मे भार्या भवेदिति
स गत्वा प्रमतिस्तूर्णं स्थूलकेशं महामुनिम् । प्रमुह्य सुमुखं कृत्वा ययाचे तां वराननाम्
ददौ वाचं स्थूलकेशः प्रदास्यामि शुभेऽहनि । विवाहार्थं च सम्भारं रचयामासतुर्वने
प्रमतिः स्थूलकेशश्च विवाहार्थं समुद्यतौ । बभूवतुर्महात्मानौ समीपस्थौ तपोवने
तस्मिन्नवसरे कन्या रममाणा गृहाङ्गणे । प्रसुप्तं पन्नगं पादेनास्पृशच्चारुलोचना
दष्टा तु पन्नगेनाथ सा ममार वराङ्गना । कोलाहलस्तदा जातो मृतां दृष्ट्वा प्रमद्वराम्
मिलिता मुनयः सर्वे चुक्रुशुः शोकसंयुताः । भूमौ तां पतितां दृष्ट्वा पिता तस्यातिदुःखितः
रुरोद विगतप्राणां दीप्यमानां सुतेजसा । रुरुः श्रुत्वा तदाक्रन्दं दर्शनार्थं समागतः
ददर्श पतितां तत्र सजीवामिव कामिनीम् । रुदन्तं स्थूलकेशं च दृष्ट्वान्यानृषिसत्तमान्
रुरुः स्थानाद्बहिर्गत्वा रुरोद विरहाकुलः । अहो दैवेन सर्पोऽयं प्रेषितः परमाद्भुतः
मम शर्मविघाताय दुःखहेतुरयं किल । किं करोमि क्व गच्छामि मृता मे प्राणवल्लभा
न वै जीवितुमिच्छामि वियुक्तः प्रिययानया । नालिङ्गिता वरारोहा न मया चुम्बिता मुखे
न पाणिग्रहणं प्राप्तं मन्दभाग्येन सर्वथा । लाजाहोमस्तथा चाग्नौ न कृतस्त्वनया सह
मानुष्यं धिगिदं कामं गच्छन्त्वद्य ममासवः । दुःखितस्य न वा मृत्युर्वाञ्छितः समुपैति हि
सुखं तर्हि कथं दिव्यमाप्यते भुवि वाञ्छितम् । प्रपतामि ह्रदे घोरे पावके प्रपताम्यहम्