गमनाय मतिं चक्रे राजा हैमाचलं प्रति । षट्त्रिंशद्वार्षिकं राज्ये स्थापयित्वोत्तरासुतम्
निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह । षट्त्रिंशच्चैव वर्षाणि कृत्वा राज्यं गजाह्वये
गत्वा हिमाचले षट् ते जहुः प्राणान्पृथासुताः । परीक्षिदपि राजर्षिः प्रजाः सर्वाः सुधार्मिकः
अपालयच्च राजेन्द्रः षष्टिवर्षाण्यतन्द्रितः । बभूव मृगयाशीलो जगाम च वनं महत्
विद्धं मृगं विचिन्वानो मध्याह्ने भूपतिः स्वयम् । तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतः
राजा घर्मेण सन्तप्तो ददर्श मुनिमन्तिके । ध्याने स्थितं मुनिं राजा जलं पप्रच्छ चातुरः
नोवाच किञ्चिन्मौनस्थश्चुकोप नृपतिस्तदा । मृतं सर्पं तदादाय धनुष्कोट्या तृषातुरः
कलिनाविष्टचित्तस्तु कण्ठे तस्य न्यवेशयत् । आरोपिते तथा सर्पे नोवाच मुनिसत्तमः
न चचाल समाधिस्थो राजापि स्वगृहं गतः । तस्य पुत्रोऽतितेजस्वी गविजातो महातपाः
महाशक्तोऽथ शुश्राव क्रीडमानो वनान्तिके । मित्राण्याहुश्च तत्पुत्रं पितुः कण्ठे तवाधुना
लम्भितोऽस्ति मृतः सर्पः केनापीति मुनीश्वर । तेषां तद्वचनं श्रुत्वा चुकोपातिशयं तदा
शशाप नृपतिं क्रुद्धो गृहीत्वाशु करे जलम् । पितुः कण्ठेऽद्य मे येन विनिक्षिप्तो मृतोरगः
तक्षकः सप्तरात्रेण तं दशेत्पापपूरुषम् । मुनेः शिष्योऽथ राजानं समुपेत्य गृहे स्थितम्
शापं निवेदयामास मुनिपुत्रेण चार्पितम् । अभिमन्युसुतः श्रुत्वा शापं दत्तं द्विजेन वै
अनिवार्यं च विज्ञाय मन्त्रिवृद्धानुवाच ह । शप्तोऽहं द्विजरूपेण मम द्वेषादसंशयम्
किं विधेयं मयामात्या उपायश्चिन्त्यतामिह । मृत्युः किलानिवार्योऽसौ वदन्ति वेदवादिनः
यत्नस्तथापि शास्त्रोक्तः कर्तव्यः सर्वथा बुधैः । उपायवादिनः केचित्प्रवदन्ति मनीषिणः
विज्ञोपायेन सिध्यन्ति कार्याणि नेतरस्य च । मणिमन्त्रौषधीनां वै प्रभावाः खलु दुर्विदः
न भवेदिति किं तैस्तु मणिमद्भिः सुसाधितैः । सर्पदष्टा पुरा भार्या मुनेः सञ्जीविता मृता
दत्त्वार्धमायुषस्तेन मुनिना सा वराप्सराः । भवितव्ये न विश्वासः कर्तव्यः सर्वथा बुधैः
प्रत्यक्षं तत्र दृष्टान्तं पश्यन्तु सचिवाः किल । दिवि कोऽपि पृथिव्यां वा दृश्यते पुरुषः क्वचित्
दैवे मतिं समाधाय यस्तिष्ठेत्तु निरुद्यमः । विरक्तस्तु यतिर्भूत्वा भिक्षार्थं याति सर्वथा
गृहस्थानां गृहे काममाहूतो वाथवान्यथा । यदृच्छयोपपन्नं च क्षिप्तं केनापि वा मुखे
उद्यमेन विना चास्यादुदरे संविशेत्कथम् । प्रयत्नश्चोद्यमे कार्यो यदा सिद्धिं न याति चेत्
तदा दैवं स्थितं चेति चित्तमालम्बयेद्बुधः । मन्त्रिण ऊचुः को मुनिर्येन दत्त्वार्धमायुषो जीविता प्रिया
कथं मृता महाराज तन्नो ब्रूहि सविस्तरम् । राजोवाच भृगोर्भार्या वरारोहा पुलोमा नाम सुन्दरी
तस्यां तु च्यवनो नाम मुनिर्जातोऽतिविश्रुतः । च्यवनस्य च शर्यातेः सुकन्या नाम सुन्दरी
तस्यां जज्ञे सुतः श्रीमान्प्रमतिर्नाम विश्रुतः । प्रमतेस्तु प्रिया भार्या प्रतापी नाम विश्रुता
रुरुर्नाम सुतो जातस्तथा परमतापसः । तस्मिंश्च समये कश्चित्स्थूलकेशश्च विश्रुतः
बभूव तपसा युक्तो धर्मात्मा सत्यसम्मतः । एतस्मिन्नन्तरे मान्या मेनका च वराप्सराः