वसुदेवस्तु तच्छ्रुत्वा देहत्यागं हरेरथ । जहौ प्राणाञ्छुचीन्कृत्वा चित्ते श्रीभुवनेश्वरीम्
अर्जुनस्तु ततो गत्वा प्रभासे चातिदुःखितः । संस्कारं तत्र सर्वेषां यथायोग्यं चकार ह
समीक्ष्याथ हरेर्देहं कृत्वा काष्ठस्य सञ्चयम् । अष्टाभिः सह पत्नीभिर्दाहयामास पार्थिवः
देहं रामस्य रेवत्या सह दग्ध्वा विभावसौ । अर्जुनो द्वारकामेत्य पुरान्निष्क्रामयज्जनम्
पुरी सा वासुदेवस्य प्लावितोदधिना ततः । अर्जुनः सर्वलोकान्वै गृहीत्वा निर्गतस्तदा
कृष्णपत्न्यस्तदा मार्गे चौराभीरैश्च लुण्ठिता । धनं सर्वं गृहीतं च निस्तेजश्चार्जुनोऽभवत्
इन्द्रप्रस्थे समागत्य वज्रो राजा कृतस्तदा । अनिरुद्धसुतो नाम्ना पार्थेनामिततेजसा
व्यासाय कथितं दुःखं तेनोक्तोऽसौ महारथः । पुनर्यदा हरिस्त्वञ्च भवितासि महामते
तदा तेजस्तवात्युग्रं भविष्यति पुनर्युगे । तच्छ्रुत्वा वचनं पार्थो गत्वा नागपुरेऽर्जुनः
दुःखितो धर्मराजानं वृत्तान्तं सर्वमब्रवीत् । देहत्यागं हरेः श्रुत्वा यादवानां क्षयं तथा
गमनाय मतिं चक्रे राजा हैमाचलं प्रति । षट्त्रिंशद्वार्षिकं राज्ये स्थापयित्वोत्तरासुतम्
निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह । षट्त्रिंशच्चैव वर्षाणि कृत्वा राज्यं गजाह्वये
गत्वा हिमाचले षट् ते जहुः प्राणान्पृथासुताः । परीक्षिदपि राजर्षिः प्रजाः सर्वाः सुधार्मिकः
अपालयच्च राजेन्द्रः षष्टिवर्षाण्यतन्द्रितः । बभूव मृगयाशीलो जगाम च वनं महत्
विद्धं मृगं विचिन्वानो मध्याह्ने भूपतिः स्वयम् । तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतः
राजा घर्मेण सन्तप्तो ददर्श मुनिमन्तिके । ध्याने स्थितं मुनिं राजा जलं पप्रच्छ चातुरः
नोवाच किञ्चिन्मौनस्थश्चुकोप नृपतिस्तदा । मृतं सर्पं तदादाय धनुष्कोट्या तृषातुरः
कलिनाविष्टचित्तस्तु कण्ठे तस्य न्यवेशयत् । आरोपिते तथा सर्पे नोवाच मुनिसत्तमः
न चचाल समाधिस्थो राजापि स्वगृहं गतः । तस्य पुत्रोऽतितेजस्वी गविजातो महातपाः
महाशक्तोऽथ शुश्राव क्रीडमानो वनान्तिके । मित्राण्याहुश्च तत्पुत्रं पितुः कण्ठे तवाधुना
लम्भितोऽस्ति मृतः सर्पः केनापीति मुनीश्वर । तेषां तद्वचनं श्रुत्वा चुकोपातिशयं तदा
शशाप नृपतिं क्रुद्धो गृहीत्वाशु करे जलम् । पितुः कण्ठेऽद्य मे येन विनिक्षिप्तो मृतोरगः
तक्षकः सप्तरात्रेण तं दशेत्पापपूरुषम् । मुनेः शिष्योऽथ राजानं समुपेत्य गृहे स्थितम्
शापं निवेदयामास मुनिपुत्रेण चार्पितम् । अभिमन्युसुतः श्रुत्वा शापं दत्तं द्विजेन वै
अनिवार्यं च विज्ञाय मन्त्रिवृद्धानुवाच ह । शप्तोऽहं द्विजरूपेण मम द्वेषादसंशयम्
किं विधेयं मयामात्या उपायश्चिन्त्यतामिह । मृत्युः किलानिवार्योऽसौ वदन्ति वेदवादिनः
यत्नस्तथापि शास्त्रोक्तः कर्तव्यः सर्वथा बुधैः । उपायवादिनः केचित्प्रवदन्ति मनीषिणः
विज्ञोपायेन सिध्यन्ति कार्याणि नेतरस्य च । मणिमन्त्रौषधीनां वै प्रभावाः खलु दुर्विदः
न भवेदिति किं तैस्तु मणिमद्भिः सुसाधितैः । सर्पदष्टा पुरा भार्या मुनेः सञ्जीविता मृता
दत्त्वार्धमायुषस्तेन मुनिना सा वराप्सराः । भवितव्ये न विश्वासः कर्तव्यः सर्वथा बुधैः