स्कन्द उवाच। एवमुक्त्वा मुनिस्तूर्णं पौष्णभं स्वतपोबलात् । यथापूर्वं तथा चक्रे सोममार्गे घटोद्भव
रेवतीनाम्नि नक्षत्रे विवाहविधिना मुनिः । रेवतीं प्रददौ राज्ञे दुर्द्दमाय महात्मने
कृत्वा विवाहं कन्याया मुनी राजानमब्रवीत् । किं तेऽभिलषितं वीर वद तत्पूरयाम्यहम्
राजोवाच। मनोः स्वायंभुवस्याहं वंशे जातोऽस्मि हे मुने । मन्वन्तराधिपं पुत्रं त्वत्प्रसादाच्च कामये
मुनिरुवाच। यद्येषा कामना तेऽस्ति देव्या आराधनं कुरु । भविष्यत्येव ते पुत्रो मनुर्मन्वंतराधिपः
देवीभागवतं नाम पुराणं यत्तु पंचमम् । पंचकृत्वस्तु तच्छ्रुत्वा लप्स्यसे ऽभिमतं सुतम्
रेवत्या रैवतो नाम पंचमो भविता मनुः । वेदविच्छास्त्रतत्त्वज्ञो धर्मवानपराजितः
पितृपैतामहं राज्यं चकार स महामतिः । पालयामास धर्मात्मा प्रजाः पुत्रानिवौरसान्
एकदा लोमशो नाम महात्मा मुनिरागतः । प्रणिपत्य तमभ्यर्च्य प्रांजलिश्चाब्रवीन्नृपः
राजोवाच। भगवंस्त्वत्प्रसादेन श्रोतुमिच्छामि भो मुने । देवी भागवतं नाम पुराणं पुत्रलिप्सया
श्रुत्वा वाचं प्रजाभर्तुः प्रीतः प्रोवाच लोमशः । धन्योऽसि राजंस्ते भक्तिर्जाता त्रैलोक्यमातरि
सुरासुरनराराध्या या परा जगदम्बिका । तस्यां चेद्भक्तिरुत्पन्ना कार्यसिद्धिर्भविष्यति
अतस्त्वां श्रावयिष्यामि श्रीमद्भागवतं नृप । यस्य श्रवणमात्रेण न किंचिदपि दुर्लभम्
इत्युक्त्वा सुदिने ब्रह्मन्कथारंभमथाकरोत् । पंचकृत्वः स शुश्राव विधिवद्भार्यया सह
समाप्तिदिवसे राजा पुराणं च मुनिं तथा । पूजयामास धर्मात्मा मुदा परमया युतः
हुत्वा नवार्णमंत्रेण भोजयित्वा कुमारिकाः । वाडवांश्च सपत्नीकान्दक्षिणाभिरतोषयत्
अथ कालेन कियता भगवत्याः प्रसादतः । गर्भं दधार सा राज्ञी लोककल्याणकारकम्
पुण्येऽथ समये प्राप्ते ग्रहैः सुस्थानसंगतैः । सर्वमंगलसंपन्ने रेवती सुषुवे सुतम्
श्रुत्वा पुत्रस्य जननं स्नात्वा राजा मुदान्वितः । स सुवर्णांभसा चक्रे जातकर्मादिकाः क्रियाः
यथाविधि च दानानि दत्त्वा विप्रानतोषयत् । कृतोपनयनं राजा सांगान्वेदानपाठयत्
सर्वविद्यानिधिर्जातौ धर्मिष्ठोऽस्त्रविदां वरः । धर्मस्य वक्ता कर्त्ता च रैवतो नाम वीर्यवान्
नियुक्तवानथ ब्रह्मा रैवतं मानवे पदे । मन्वन्तराधिपः श्रीमान्गां शशास स धर्मतः
इत्थं देव्याः प्रभावोऽयं संक्षेपेणोपवर्णितः । पुराणस्य च माहात्म्यं को वक्तुं विस्तरात्क्षमः
सूत उवाच। कुंभयोनिस्तु माहात्म्यं विधिं भागवतस्य च । श्रुत्वा कुमारं चाभ्यर्च्य स्वाश्रमं पुनराययौ
इदं मया भागवतस्य विप्रा माहात्म्यमुक्तं भवतां समक्षम् । शृणोति भक्त्या पठतीह भोगान्भुक्त्वाऽखिलान्मुक्तिमुपैति चांते
अथ पञ्चमोऽध्यायः ऋषय ऊचुः। सूत सूत महाभाग श्रुतं माहात्म्यमुत्तमम् । अधुना श्रोतुमिच्छामः पुराणश्रवणे विधिम्
सूत उवाच। श्रूयतां मुनयः सर्वे पुराणश्रवणे विधिम् । नराणां शृण्वतां येन सिद्धिः स्यात्सार्वकामिकी
आदौ दैवज्ञमाहूय मुहूर्तं कल्पयेत्सुधीः । आरभ्य शुचिमासं तु मासषट्कं शुभावहम्
हस्ताश्विमूलपुष्यर्क्षे ब्रह्ममैत्रेन्दुवैष्णवे । सत्तिथौ शुभवारे च पुराणश्रवणं शुभम्
गुरुभाद्वेद४वेदा४ब्ज१शरां५गा६ब्धि४गुणैः४क्रमात् । धर्माप्तिरिन्दिराप्राप्तिः कथासिद्धिः परं सुखम्