कृष्ण कर्णस्तु पुत्रो मे जातमात्रस्तु वीक्षितः । मनो मे तप्यतेऽत्यर्थं दर्शयस्व तपोधन
समर्थोऽसि महाभाग कुरु मे वाञ्छितं प्रभो । गान्धार्युवाच दुर्योधनो रणेऽगच्छद्वीक्षितो न मया मुने
तं दर्शय मुनिश्रेष्ठ पुत्रं मे त्वं सहानुजम् । सुभद्रोवाच अभिमन्युं महावीरं प्राणादप्यधिकं प्रियम्
द्रष्टुकामास्मि सर्वज्ञ दर्शयाद्य तपोधन । सूत उवाच एवंविधानि वाक्यानि श्रुत्वा सत्यवतीसुतः
प्राणायामं ततः कृत्वा दध्यौ देवीं सनातनीम् । सन्ध्याकालेऽथ सम्प्राप्ते गङ्गायां मुनिसत्तमः
सर्वांस्तांश्च समाहूय युधिष्ठिरपुरोगमान् । तुष्टाव विश्वजननीं स्नात्वा पुण्यसरिज्जले
प्रकृतिं पुरुषारामां सगुणां निर्गुणां तथा । देवदेवीं ब्रह्मरूपां मणिद्वीपाधिवासिनीम्
यदा न वेधा न च विष्णुरीश्वरो न वासवो नैव जलाधिपस्तथा । न वित्तपो नैव यमश्च पावक- स्तदासि देवि त्वमहं नमामि ताम्
जलं न वायुर्न धरा न चाम्बरं गुणा न तेषां च न चेन्द्रियाण्यहम् । मनो न बुद्धिर्न च तिग्मगुः शशी तदासि देवि त्वमहं नमामि ताम्
इमं जीवलोकं समाधाय चित्ते गुणैर्लिङ्गकोशं च नीत्वा समाधौ । स्थिता कल्पकालं नयस्यात्मतन्त्रा न कोऽप्यस्ति वेत्ता विवेकं गतोऽपि
प्रार्थयत्येष मां लोको मृतानां दर्शनं पुनः । नाहं क्षमोऽस्मि मातस्त्वं दर्शयाशु जनान्मृतान्
सूत उवाच एवं स्तुता तदा देवी माया श्रीभुवनेश्वरी । स्वर्गादाहूय सर्वान्वै दर्शयामास पार्थिवान्
दृष्ट्वा कुन्ती च गान्धारी सुभद्रा च विराटजा । पाण्डवा मुमुदुः सर्वे वीक्ष्य प्रत्यागतान्स्वकान्
पुनर्विसर्जितास्तेन व्यासेनामिततेजसा । स्मृत्वा देवीं महामायामिन्द्रजालमिवोद्यतम्
तदा पृष्ट्वा ययुः सर्वे पाण्डवा मुनयस्तथा । राजा नागपुरं प्राप्तः कुर्वन् व्यासकथां पथि
रुरुचरित्रवर्णनम् सूत उवाच ततो दिने तृतीये च धृतराष्ट्रः स भूपतिः । दावाग्निना वने दग्धः सभार्यः कुन्तिसंयुतः
सञ्जयस्तीर्थयात्रायां गतस्त्यक्त्वा महीपतिम् । श्रुत्वा युधिष्ठिरो राजा नारदाद्दुःखमाप्तवान्
षट्त्रिंशेऽथ गते वर्षे कौरवाणां क्षयात्पुनः । प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः
ते पीत्वा मदिरां मत्ताः कृत्वा युद्धं परस्परम् । क्षयं प्राप्ता महात्मानः पश्यतो रामकृष्णयोः
देहं तत्याज रामस्तु कृष्णः कमललोचनः । व्याधबाणहतः शापं पालयन्भगवान्हरिः
वसुदेवस्तु तच्छ्रुत्वा देहत्यागं हरेरथ । जहौ प्राणाञ्छुचीन्कृत्वा चित्ते श्रीभुवनेश्वरीम्
अर्जुनस्तु ततो गत्वा प्रभासे चातिदुःखितः । संस्कारं तत्र सर्वेषां यथायोग्यं चकार ह
समीक्ष्याथ हरेर्देहं कृत्वा काष्ठस्य सञ्चयम् । अष्टाभिः सह पत्नीभिर्दाहयामास पार्थिवः
देहं रामस्य रेवत्या सह दग्ध्वा विभावसौ । अर्जुनो द्वारकामेत्य पुरान्निष्क्रामयज्जनम्
पुरी सा वासुदेवस्य प्लावितोदधिना ततः । अर्जुनः सर्वलोकान्वै गृहीत्वा निर्गतस्तदा
कृष्णपत्न्यस्तदा मार्गे चौराभीरैश्च लुण्ठिता । धनं सर्वं गृहीतं च निस्तेजश्चार्जुनोऽभवत्
इन्द्रप्रस्थे समागत्य वज्रो राजा कृतस्तदा । अनिरुद्धसुतो नाम्ना पार्थेनामिततेजसा
व्यासाय कथितं दुःखं तेनोक्तोऽसौ महारथः । पुनर्यदा हरिस्त्वञ्च भवितासि महामते
तदा तेजस्तवात्युग्रं भविष्यति पुनर्युगे । तच्छ्रुत्वा वचनं पार्थो गत्वा नागपुरेऽर्जुनः
दुःखितो धर्मराजानं वृत्तान्तं सर्वमब्रवीत् । देहत्यागं हरेः श्रुत्वा यादवानां क्षयं तथा