एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् । आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन्
अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः । धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम्
अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः । पुत्रेभ्योऽहं ददाम्यद्य निर्वापं विधिपूर्वकम्
वृकोदरेण सर्वेषां कृतमत्रौर्ध्वदैहिकम् । न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन्
ददासि चेद्धनं मह्यं कृत्वा चैवोर्ध्वदैहिकम् । गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम्
एकान्ते विदुरेणोक्तो राजा धर्मसुतः शुचिः । धनं दातुं मनश्चक्रे धृतराष्ट्राय चार्थिने
समाहूय निजान्मर्वानुवाच पृथिवीपतिः । धनं दास्ये महाभागाः पित्रे निर्वापकामिने
तच्छ्रुत्वा वचनं भ्रातुर्न्येष्ठस्यामिततेजसः । संग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत्
धनं देयं महाभाग दुर्योधनहिताय किम् । अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम्
तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम् । द्रौपदी च महाभागा समानीता दुरात्मना
विराटभवने वासः प्रसादात्तव सुव्रत । दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः
देविता त्वं न चेज्ज्येष्ठः प्रभवेत्संक्षयः कथम् । सूपकारो विराटस्य हत्वाभूवं तु मागधम्
बृहन्नला कथं जिष्णुर्भवेद्बालस्य नर्तकः । कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः
गाण्डीवशोभितौ हस्तौ कृतौ कङ्कणशोभितौ । मानुषं च वपुः प्राप्य किं दुःखं स्यादतः परम्
दृष्ट्वा वेणीं कृतां मूर्ध्नि कज्जलं लोचने तथा । असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम्
अपृष्ट्वा च महीपालं निक्षिप्तोऽग्निर्मया गृहे । दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोचनः
कीचका निहताः सर्वे त्वामपृष्ट्वा जनाधिप । न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः
मूर्खत्वं तव राजेन्द्र गन्धर्वेभ्यश्च मोचिताः । दुर्योधनादयः कामं शत्रवो निगडीकृताः
दुर्योधनहितायाद्य धनं दातुं त्वमिच्छसि । नाहं ददे महीपाल सर्वथा प्रेरितस्त्वया
इत्युक्त्वा निर्गते भीमे त्रिभिः परिवृतो नृपः । ददौ वित्तं सुबहुलं धृतराष्ट्राय धर्मजः
कारयामास विधिवत्पुत्राणां चौर्ध्वदैहिकम् । ददौ दानानि विप्रेभ्यो धृतराष्ट्रोऽम्बिकासुतः
कृत्वौर्ध्वदैहिकं सर्वं गान्धारीसहितो नृपः । प्रविवेश वनं तूर्णं कुन्त्या च विदुरेण च
सञ्जयेन परिज्ञातो निर्गतोऽसौ महामतिः । पुत्रैर्निवार्यमाणापि शूरसेनसुता गता
विलपन्भीमसेनोऽपि तथान्ये चापि कौरवाः । गङ्गातीरात्परावृत्य ययुः सर्वे गजाह्वयम्
ते गत्वा जाह्नवीतीरे शतयूपाश्रमं शुभम् । कृत्वा तृणैः कुटीं तत्र तपस्तेपुः समाहिताः
गतान्यब्दानि षट् तेषां यदा याता हि तापसाः । युधिष्ठिरस्तु विरहादनुजानिदमब्रवीत्
स्वप्ने दृष्टा मया कुन्ती दुर्बला वनसंस्थिता । मनो मे जायते द्रष्टुं मातरं पितरौ तथा
विदुरं च महात्मानं सञ्जयं च महामतिम् । रोचते यदि वः सर्वान् व्रजाम इति मे मतिः
ततस्ते भ्रातरः सर्वे सुभद्रा द्रौपदी तथा । वैराटी च महाभागा तथा नागरिको जनः
प्राप्ताः सर्वजनैः सार्धं पाण्डवा दर्शनोत्सुकाः । शतयूपाश्रमं प्राप्य ददृशुः सर्व एव ते