अभिमन्योर्वरा भार्या वैराटी चातिसुन्दरी । कुलान्ते सुषुवे पुत्रं मृतो बाणाग्निना शिशुः
जीवितः स तु कृष्णेन भागिनेयसुतः स्वयम् । द्रौणिबाणाग्निनिर्दग्धः प्रतापेनाद्भुतेन च
परिक्षीणेषु वंशेषु जातो यस्माद्वरः सुतः । तस्मात्परीक्षितो नाम विख्यातः पृथिवीतले
निहतेषु च पुत्रेषु धृतराष्ट्रोऽतिदुःखितः । तस्थौ पाण्डवराज्ये च भीमवाग्बाणपीडितः
गान्धारी च तथातिष्ठत् पुत्रशोकातुरा भृशम् । सेवां तयोर्दिवारात्रं चकारार्तो युधिष्ठिरः
विदुरोऽप्यतिधर्मात्मा प्रज्ञानेत्रमबोधयत् । युधिष्ठिरस्यानुमते भ्रातृपार्श्वे व्यतिष्ठत
धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः । पुत्रशोकोद्भवं दुःखं तस्य विस्मारयन्निव
यथा शृणोति वृद्धोऽसौ तथा भीमोऽतिरोषितः । वारबाणेनाहनत्तं तु श्रावयन्संस्थिताञ्जनान्
मया पुत्रा हताः सर्वे दुष्टस्यान्धस्य ते रणे । दुःशासनस्य रुधिरं पीतं हृद्यं तथा भृशम्
भुनक्ति पिण्डमन्धोऽयं मया दत्तं गतत्रपः । ध्वांक्षवद्वा श्ववच्चापि वृथा जीवत्यसौ जनः
एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् । आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन्
अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः । धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम्
अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः । पुत्रेभ्योऽहं ददाम्यद्य निर्वापं विधिपूर्वकम्
वृकोदरेण सर्वेषां कृतमत्रौर्ध्वदैहिकम् । न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन्
ददासि चेद्धनं मह्यं कृत्वा चैवोर्ध्वदैहिकम् । गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम्
एकान्ते विदुरेणोक्तो राजा धर्मसुतः शुचिः । धनं दातुं मनश्चक्रे धृतराष्ट्राय चार्थिने
समाहूय निजान्मर्वानुवाच पृथिवीपतिः । धनं दास्ये महाभागाः पित्रे निर्वापकामिने
तच्छ्रुत्वा वचनं भ्रातुर्न्येष्ठस्यामिततेजसः । संग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत्
धनं देयं महाभाग दुर्योधनहिताय किम् । अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम्
तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम् । द्रौपदी च महाभागा समानीता दुरात्मना
विराटभवने वासः प्रसादात्तव सुव्रत । दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः
देविता त्वं न चेज्ज्येष्ठः प्रभवेत्संक्षयः कथम् । सूपकारो विराटस्य हत्वाभूवं तु मागधम्
बृहन्नला कथं जिष्णुर्भवेद्बालस्य नर्तकः । कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः
गाण्डीवशोभितौ हस्तौ कृतौ कङ्कणशोभितौ । मानुषं च वपुः प्राप्य किं दुःखं स्यादतः परम्
दृष्ट्वा वेणीं कृतां मूर्ध्नि कज्जलं लोचने तथा । असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम्
अपृष्ट्वा च महीपालं निक्षिप्तोऽग्निर्मया गृहे । दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोचनः
कीचका निहताः सर्वे त्वामपृष्ट्वा जनाधिप । न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः
मूर्खत्वं तव राजेन्द्र गन्धर्वेभ्यश्च मोचिताः । दुर्योधनादयः कामं शत्रवो निगडीकृताः
दुर्योधनहितायाद्य धनं दातुं त्वमिच्छसि । नाहं ददे महीपाल सर्वथा प्रेरितस्त्वया
इत्युक्त्वा निर्गते भीमे त्रिभिः परिवृतो नृपः । ददौ वित्तं सुबहुलं धृतराष्ट्राय धर्मजः