कथायां वर्तमानायां कदाचिद्धर्मसंश्रितम् । अशृणोद्वचनं राजा सुपृष्टं मुनिभाषितम्
अपुत्रस्य गतिर्नास्ति स्वर्गे गन्तुं परन्तप । येन केनाप्युपायेन पुत्रस्य जननं चरेत्
अंशजः पुत्रिकापुत्रः क्षेत्रजो गोलकस्तथा । कुण्डः सहोढः कानीनः क्रीतः प्राप्तस्तथा वने
दत्तः केनापि चाशक्तौ धनग्राहिसुताः स्मृताः । उत्तरोत्तरतः पुत्रा निकृष्टा इति निश्चयः
इत्याकर्ण्य तदा प्राह कुन्तीं कमललोचनाम् । सुतमुत्पादयाशु त्वं मुनिं गत्वा तपोऽन्वितम्
ममाज्ञया न दोषस्ते पुरा राज्ञा महात्मना । वसिष्ठाज्जनितः पुत्रः सौदासेनेति मे श्रुतम्
तं कुन्ती वचनं प्राह मम मन्त्रोऽस्ति कामदः । दत्तो दुर्वाससा पूर्वं सिद्धिदः सर्वथा प्रभो
निमन्त्रयेऽहं यं देवं मन्त्रेणानेन पार्थिव । आगच्छेत्सर्वथासौ वै मम पार्श्वं निमन्त्रितः
भर्तुर्वाक्येन सा तत्र स्मृत्वा धर्मं सुरोत्तमम् । सङ्गम्य सुषुवे पुत्रं प्रथमं च युधिष्ठिरम्
वायोर्वृकोदरं पुत्रं जिष्णुं चैव शतक्रतोः । वर्षे वर्षे त्रयः पुत्राः कुन्त्या जाता महाबलाः
माद्री प्राह पतिं पाण्डुं पुत्रं मे कुरु सत्तम । किं करोमि महाराज दुःखं नाशय मे प्रभो
प्रार्थिता पतिना कुन्ती ददौ मन्त्रं दयान्विता । एकपुत्रप्रबन्धेन माद्री पतिमते स्थिता
स्मृत्वा तदाश्विनौ देवौ मद्रराजसुता सुतौ । नकुलः सहदेवश्च सुषुवे वरवर्णिनी
एवं ते पाण्डवाः पञ्च क्षेत्रोत्पन्ताः सुरात्मजाः । वर्षवर्षान्तरे जाता वने तस्मिन्द्विजोत्तमाः
एकस्मिन्समये पाण्डुर्माद्रीं दृष्ट्वाथ निर्जने । आश्रमे चातिकामार्तो जग्राहागतवैशसः
मा मा मा मेति बहुधा निषिद्धोऽपितया भृशम् । आलिलिङ्ग प्रियां दैवात्पपात धरणीतले
यथा वृक्षगता वल्ली छिन्ने पतति वै द्रुमे । तथा सा पतिता बाला कुर्वन्ती रोदनं बहु
प्रत्यागता तदा कुन्ती रुदती बालकास्तथा । मुनयश्च महाभागाः श्रुत्वा कोलाहलं तदा
मृतः पाण्डुस्तदा सर्वे मुनयः संशितव्रताः । सहाग्निभिर्विधिं कृत्वा गङ्गातीरे तदादहन्
चक्रे सहैव गमनं माद्री दत्त्वा सुतौ शिशू । कुन्त्यै धर्मं पुरस्कृत्य सतीनां सत्यकामतः
जलदानादिकं कृत्वा मुनयस्तत्र वासिनः । पञ्चपुत्रयुतां कुन्तीमनयन्हस्तिनापुरम्
तां प्राप्तां च समाज्ञाय गाङ्गेयो विदुरस्तथा । नगरीं धृतराष्ट्रस्य सर्वे तत्र समाययुः
पप्रच्छुश्च जनाः सर्वे कस्य पुत्रा वरानने । पाण्डोः शापं समाज्ञाय कुन्ती दुःखान्विता तदा
तानुवाच सुराणां वै पुत्राः कुरुकुलोद्भवाः । विश्वासार्थं समाहूताः कुन्त्या सर्वे सुरास्तदा
आगत्य खे तदा तैस्तु कथितं नः सुताः किल । भीष्मेण सत्कृतं वाक्यं देवानां सत्कृताः सुताः
गता नागपुरं सर्वे तानादाय सुतान्वधूम् । भीष्मादयः प्रीतचित्ताः पालयामासुरर्थतः
एवं पार्थाः समुत्पन्ना गाङ्गेयेनाथ पालिताः
पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् सूत उवाच पञ्चानां द्रौपदी भार्या सा मान्या सा पतिव्रता । पञ्च पुत्रास्तु तस्याः स्युर्भर्तृभ्योऽतीव सुन्दराः
अर्जुनस्य तथा भार्या कृष्णस्य भगिनी शुभा । सुभद्रा या हृता पूर्वं जिष्णुना हरिसम्मते
तस्यां जातो महावीरो निहतोऽसौ रणाजिरे । अभिमन्युर्हतास्तत्र द्रौपद्याश्च सुताः किल