दुर्वासास्तु मुनिः प्राप्तश्चातुर्मास्ये स्थितो द्विजः । परिचर्या कृता कुन्त्या मुनिस्तोषं जगाम ह
ददौ मन्त्रं शुभं तस्यै येनाहूतः सुरः स्वयम् । समायाति तथा कामं पूरयिष्यति वाञ्छितम्
गते मुनौ ततः कुन्ती निश्चयार्थं गृहे स्थिता । चिन्तयामास मनसा कं सुरं समचिन्तये
उदितश्च तदा भानुस्तया दृष्टो दिवाकरः । मन्त्रोच्चारं तया कृत्वा चाहूतस्तिग्मगुस्तदा
मण्डलान्मानुषं रूपं कृत्वा सर्वातिपेशलम् । अवातरत्तदाकाशात्समीपे तत्र मन्दिरे
दृष्ट्वा देवं समायान्तं कुन्ती भानुं सुविस्मिता । वेपमाना रजोदोषं प्राप्ता सद्यस्तु भामिनी
कृताञ्जलिः स्थिता सूर्यं बभाषे चारुलोचना । सुप्रीता दर्शनेनाद्य गच्छ त्वं निजमण्डलम्
सूर्य उवाच आहूतोऽस्मि कथं कुन्ति त्वया मन्त्रबलेन वै । न मां भजसि कस्मात्त्वं समाहूय पुरोगतम्
कामार्तोऽस्म्यसितापाङ्गि भज मां भावसंयुतम् । मन्त्रेणाधीनतां प्राप्प्तं क्रीडितुं नय मामिति
कुन्त्युवाच ॥ कन्यास्म्यहं तु धर्मज्ञ सर्वसाक्षिन्नमाम्यहम् । तवाप्यहं न दुर्वाच्या कुलकन्यास्मि सुव्रत
सूर्य उवाच लज्जा मे महती चाद्य यदि गच्छाम्यहं वृथा । वाच्यतां सर्वदेवानां यास्याम्यत्र न संशयः
शप्स्यामि तं द्विजं चाद्य येन मन्त्रः समर्पितः । त्वां चापि सुभृशं कुन्ति नोचेन्मां त्वं भजिष्यसि
कन्याधर्मः स्थिरस्ते स्यान्न ज्ञास्यन्ति जनाः किल । मत्समस्तु तथा पुत्रो भविता ते वरानने
इत्युक्त्वा तरणिः कुन्तीं तन्मनस्कां सुलज्जिताम् । भुक्त्वा जगाम देवेशो वरं दत्त्वातिवाञ्छितम्
गर्भं दधार सुश्रोणी सुगुप्ते मन्दिरे स्थिता । धात्री वेद प्रिया चैका न माता न जनस्तथा
गुप्तः सद्मनि पुत्रस्तु जातश्चातिमनोहरः । कवचेनातिरम्येण कुण्डलाभ्यां समन्वितः
द्वितीय इव सूर्यस्तु कुमार इव चापरः । करे कृत्वाथ धात्रेयी तामुवाच सुलज्जिताम्
कां चिन्तां करभोरु त्वमाधत्सेऽद्य स्थितास्म्यहम् । मञ्जूषायां सुतं कुन्ती मुञ्चन्ती वाक्यमब्रवीत्
किं करोमि सुतार्ताहं त्यजे त्वां प्राणवल्लभम् । मन्दभाग्या त्यजामि त्वां सर्वलक्षणसंयुतम्
पातुत्वां सगुणागुणा भगवती सर्वेश्वरी चाम्बिका स्तन्यं सैव ददातु विश्वजननी कात्यायनी कामदा । द्रक्ष्येऽहंमुखपङ्कजं सुललितं प्राणप्रियार्हं कदा त्यक्त्वा त्वां विजने वने रविसुतं दुष्टा यथा स्वैरिणी
पूर्वस्मिन्नपि जन्मनि त्रिजगतां माता न चाराधिता न ध्यातं पदपङ्कजं सुखकरं देव्याः शिवायाश्चिरम् । तेनाहं सुत दुर्भगास्मि सततं त्यक्त्वा पुनस्त्वां वने तप्स्यामि प्रिय पातकं स्मृतवती बुद्ध्या कृतं यत्स्वयम्
सूत उवाव इत्युक्त्या तं सुतं कुन्ती मञ्जूषायां धृतं किल । धात्रीहस्ते ददौ भीता जनदर्शनतस्तथा
स्नात्वा त्रस्ता तदा कुन्ती पितृवेश्मन्युवास सा । मञ्जूषा वहमाना च प्राप्ता ह्यधिरथेन वै
राधा सूतस्य भार्या वै तयासौ प्रार्थितः सुतः । कर्णोऽभूद्बलवान्वीरः पालितः सूतसद्मनि
कुन्ती विवाहिता कन्या पाण्डुना सा स्वयम्वरे । माद्री चैवापरा भार्या मद्रराजसुता शुभा
मृगयां रममाणस्तु वने पाण्डुर्महाबलः । जघान मृगबुद्ध्या तु रममाणं मुनिं वने
शप्तस्तेन तदा पाण्डुर्मुनिना कुपितेन च । स्त्रीसङ्गं यदि कर्तासि तदा ते मरणं धुवम्
इति शप्तस्तु मुनिना पाण्डुः शोकसमन्वितः । त्यक्त्वा राज्यं वने वासं चकार भृशदुःखितः
कुन्ती माद्री च भार्ये द्वे जग्मतुः सह सङ्गते । सेवनार्थं सतीधर्मं संश्रिते मुनिसत्तमाः
गङ्गातीरे स्थितः पाण्डुर्मुनीनामाश्रमेषु च । शृण्वानो धर्मशास्त्राणि चकार दुश्चरं तपः