धिक् तं सुतं यः पितुरीप्सितार्थं क्षमोऽपि सन्न प्रतिपादयेद्यः । जातेन किं तेन सुतेन कामं पितुर्न चिन्तां हि समुद्धरेद्यः
सूत उवाच निशम्येति वचस्तस्य पुत्रस्य शन्तनुर्नृपः । लज्जमानस्तु मनसा तमाह त्वरितं सुतम्
राजोवाच चिन्ता मे महती पुत्र यस्त्वमेकोऽसि मे सुतः । शूरोऽतिबलवान्मानी संग्रामेष्वपराङ्मुखः
एकापत्यस्य मे तात वृथेदं जीवितं किल । मृते त्वयि मृधे क्वापि किं करोमि निराश्रयः
एषा मे महती चिन्ता तेनाद्य दुःखितोऽत्म्यहम् । नान्या चिन्तास्ति मे पुत्र यां तवाग्रे वदाम्यहम्
सूत उवाच तदाकर्ण्याथ गाङ्गेयो मन्त्रिवृद्धानपृच्छत । न मां वदति भूपालो लज्जयाद्य परिप्लुतः
वित्त वार्तां नृपस्याद्य पृष्ट्वा यूयं विनिश्चयात् । सत्यं ब्रुवन्तु मां सर्वं तत्करोमि निराकुलः
तच्छ्रुत्वा ते नृपं गत्वा संविज्ञाय च कारणम् । शशंसुर्विदितार्थस्तु गाङ्गेयस्तदचिन्तयत्
सहितस्तैर्जगामाशु दाशस्य सदनं तदा । प्रेमपूर्वमुवाचेदं विनम्रो जाह्नवीसुतः
गाङ्गेय उवाच पित्रे देहि सुतां तेऽद्य प्रार्थयामि सुमध्यमाम् । माता मेऽस्तु सुतेयं ते दासोऽत्म्यस्याः परन्तप
दाश उवाच त्वं गृहाण महाभाग पत्नीं कुरु नृपात्मज । पुत्रोऽस्या न भवेद्राजा वर्तमाने त्वयीति वै
गाङ्गेय उवाच मातेयं मम दाशेयी राज्यं नैव करोम्यहम् । पुत्रोऽस्याः सर्वथा राज्यं करिष्यति न संशयः
दाश उवाच सत्यं वाक्यं मया ज्ञातं पुत्रस्ते बलवान्भवेत् । सोऽपि राज्यं बलान्नूनं गृह्णीयादिति निश्चयः
गाङ्गेय उवाच न दारसंग्रहं नूनं करिष्यामि हि सर्वथा । सत्यं मे वचनं तात मया भीष्मं व्रतं कृतम्
सूत उवाच एवं कृतां प्रतिज्ञां तु निशम्य झषजीवकः । ददौ सत्यवतीं तस्मै राज्ञे सर्वाङ्गशोभनाम्
अनेन विधिना तेन वृता सत्यवती प्रिया । न जानाति परं जन्म व्यासस्य नृपसत्तमः
युधिष्ठिरादीनामुत्पत्तिवर्णनम् सूत उवाच एवं सत्यवती तेन वृता शन्तनुना किल । द्वौ पुत्रौ च तया जातौ मृतौ कालवशादपि
व्यासवीर्यात्तु सञ्जातो धृतराष्ट्रोऽन्ध एव च । मुनिं दृष्ट्वाथ कामिन्या नेत्रसम्मीलने कृते
श्वेतरूपा यतो जाता दृष्ट्वा व्यासं नृपात्मजा । व्यासकोपात्समुत्पन्नः पाण्डुस्तेन न संशयः
सन्तोषितस्तया व्यासो दास्या कामकलाविदा । विदुरस्तु समुत्पन्नो धर्मांशः सत्यवाक् शुचिः
राज्ये संस्थापितः पाण्डुः कनीयानपि मन्त्रिभिः । अन्धत्वाद्धृतराष्ट्रोऽसौ नाधिकारे नियोजितः
भीष्मस्यानुमते राज्यं प्राप्तः पाण्डुर्महाबलः । विदुरोऽप्यथ मेधावी मन्त्रकार्ये नियोजितः
धृतराष्ट्रस्य द्वे भार्ये गान्धारी सौबली स्मृता । द्वितीया च तथा वैश्या गार्हस्त्येषु प्रतिष्ठिता
पाण्डोरपि तथा पत्न्यौ द्वे प्रोक्ते वेदवादिभिः । शौरसेनी तथा कुन्ती माद्री च मद्रदेशजा
गान्धारी सुषुवे पुत्रशतं परमशोभनम् । वैश्याप्येकं सुतं कान्तं युयुत्सुं सुषुवे प्रियम्
कुन्ती तु प्रथमं कन्या सूर्यात्कर्णं मनोहरम् । सुषुवे पितृगेहस्था पश्चात्पाण्डुपरिग्रहः
ऋषय ऊचुः किमेतत्सूत चित्रं त्वं भाषसे मुनिसत्तम । जनितश्च सुतः पूर्वं पाण्डुना सा विवाहिता
सूर्यात्कर्णः कथं जातः कन्यायां वद विस्तरात् । कन्या कथं पुनर्जाता पाण्डुना सा विवाहिता
सूत उवाच शूरसेनसुता कुन्ती बालभावे यदा द्विजाः । कुन्तिभोजेन राज्ञा तु प्रार्थिता कन्यका शुभा
कुन्तिभोजेन सा बाला पुत्री तु परिकल्पिता । सेवनार्थं तु दीप्तस्य विहिता चारुहासिनी