यदात्थ राजन् मयि तत्तथैव मन्येऽहमेतत्तु यथा वचस्ते । नास्मि स्वतन्त्रा त्वमवेहि कामं दाता पिता मेऽर्थय तं त्वमाशु
न स्वैरिणीहास्म्यपि दाशपुत्री पितुर्वशेऽहं सततं चरामि । स चेद्ददाति प्रथितः पिता मे गृहाण पाणिं वशगास्मि तेऽहम्
मनोभवस्त्वां नृप किं दुनोति यथा पुनर्मां नवयौवनां च । दुनोति तत्रापि हि रक्षणीया धृतिः कुलाचारपरम्परासु
सूत उवाच इत्याकर्ण्य वचस्तस्या नृपति काममोहितः । गतो दाशपतेर्गेहं तस्या याचनहेतवे
दृष्ट्वा नृपतिमायान्तं दाशोऽतिविस्मयं गतः । प्रणामं नृपतेः कृत्वा कृताञ्जलिरभाषत
दाश उवाच दासोऽस्मि तव भूपाल कृतार्थोऽहं तवागमे । आज्ञां देहि महाराज यदर्थमिह चागमः
राजोवाच धर्मपत्नीं करिष्यामि सुतामेतां तवानघ । त्वया चेद्दीयते मह्यं सत्यमेतद्ब्रवीमि ते
दाश उवाच कन्यारत्नं मदीयं चेद्यत्त्वं प्रार्थयसे नृप । दातव्यं तु प्रदास्यामि न त्वदेयं कदाचन
तस्याः पुत्रो महाराज त्वदन्ते पृथिवीपतिः । सर्वथा चाभिषेक्तव्यो नान्यः पुत्रस्तवेति वै
सूत उवाच श्रुत्वावाक्यं तु दाशस्य राजा चिन्तातुरोऽभवत् । गाङ्गेयं मनसा कृत्वा नोवाच नृपतिस्तदा
कामातुरो गृहं प्राप्तश्चिन्ताविष्टो महीपतिः । न सस्नौ बुभुजे नाथ न सुष्वाप गृहं गतः
चिन्तातुरं तु तं दृष्ट्वा पुत्रो देवव्रतस्तदा । गत्वापृच्छन्महीपालं तदसन्तोषकारणम्
दुर्जयः कोऽस्ति शत्रुस्ते करोमि वशगं तव । का चिन्ता नृपशार्दूल सत्यं वद नृपोत्तम
किं तेन जातेन सुतेन राजन् दुःखं न जानाति न नाशयेद्यः । ऋणं ग्रहीतुं समुपागतोऽसौ प्राग्जन्मजं नात्र विचारणास्ति
विमुच्य राज्यं रघुनन्दनोऽपि ताताज्ञया दाशरथिस्तु रामः । वनं गतो लक्ष्मणजानकीभ्यां सहैव शैलं किल चित्रकूटम्
सुतो हरिश्चन्द्रनृपस्य राजन् यो रोहितश्चेति प्रसिद्धनामा । क्रीतोऽथ पित्रा विपणोद्यतश्च दासार्पितो विप्रगृहे तु नूनम्
तथाजिगर्तस्य सुतो वरिष्ठो नाम्ना शुनःशेप इति प्रसिद्धः । क्रीतस्तु पित्राप्यथ यूपबद्धः सम्मोचितो गाधिसुतेन पश्चात्
पित्राज्ञया जामदग्न्येन पूर्वं छिन्नं शिरो मातुरिति प्रसिद्धम् । अकार्यमप्याचरितं च तेन गुरोरनुज्ञा च गरीयसी कृता
इदं शरीरं तव भूपते न क्षमोऽस्मि नूनं वद किं करोम्यहम् । न शोचनीयं मयि वर्तमाने- ऽप्यसाध्यमर्थं प्रतिपादयाम्यदः
प्रब्रूहि राजंस्तव कास्ति चिन्ता निवारयाम्यद्य धनुर्गृहीत्वा । देहेन मे चेच्चरितार्थता वा भवत्वमोघा भवतश्चिकीर्षा
धिक् तं सुतं यः पितुरीप्सितार्थं क्षमोऽपि सन्न प्रतिपादयेद्यः । जातेन किं तेन सुतेन कामं पितुर्न चिन्तां हि समुद्धरेद्यः
सूत उवाच निशम्येति वचस्तस्य पुत्रस्य शन्तनुर्नृपः । लज्जमानस्तु मनसा तमाह त्वरितं सुतम्
राजोवाच चिन्ता मे महती पुत्र यस्त्वमेकोऽसि मे सुतः । शूरोऽतिबलवान्मानी संग्रामेष्वपराङ्मुखः
एकापत्यस्य मे तात वृथेदं जीवितं किल । मृते त्वयि मृधे क्वापि किं करोमि निराश्रयः
एषा मे महती चिन्ता तेनाद्य दुःखितोऽत्म्यहम् । नान्या चिन्तास्ति मे पुत्र यां तवाग्रे वदाम्यहम्
सूत उवाच तदाकर्ण्याथ गाङ्गेयो मन्त्रिवृद्धानपृच्छत । न मां वदति भूपालो लज्जयाद्य परिप्लुतः
वित्त वार्तां नृपस्याद्य पृष्ट्वा यूयं विनिश्चयात् । सत्यं ब्रुवन्तु मां सर्वं तत्करोमि निराकुलः
तच्छ्रुत्वा ते नृपं गत्वा संविज्ञाय च कारणम् । शशंसुर्विदितार्थस्तु गाङ्गेयस्तदचिन्तयत्
सहितस्तैर्जगामाशु दाशस्य सदनं तदा । प्रेमपूर्वमुवाचेदं विनम्रो जाह्नवीसुतः
गाङ्गेय उवाच पित्रे देहि सुतां तेऽद्य प्रार्थयामि सुमध्यमाम् । माता मेऽस्तु सुतेयं ते दासोऽत्म्यस्याः परन्तप