तथाऽग्निशालाद्वारस्थं राजानं दुर्दमं मुनिः । राजलक्षणसंयुक्तमपश्यत्प्रश्रयानतम्
प्रणनाम च तं राजा मुनिः शिष्यमुवाच ह । गौतमानीयतामर्घ्यमर्घ्ययोग्योऽस्ति भूपतिः
आगतश्चिरकालेन जामातेति विशेषतः । इत्युक्त्वार्घ्यं ददौ तस्मै सोपि जग्राह चिन्तयन्
मुनिरासनमासीनं गृहीतार्घ्यं च भूपतिम् । आशीर्भिरभिनंद्याथ कुशलं चाप्यपृच्छत
अपि तेऽनामयं राजन्बले कोशे सुहृत्सु च । भृत्येऽमात्ये पुरे देशे तथात्मनि जनाधिप
भार्याऽस्ति ते कुशलिनी यतः सात्रैव तिष्ठति । अतो न पृच्छाम्यस्यास्ते चान्यासां कुशलं वद ॥ राजोवाच। भगवंस्त्वत्प्रसादेन सर्वत्रानामयं मम । एतत्कुतूहलं ब्रह्मन्मद्भार्या काsत्र विद्यते
ऋषिरुवाच। रेवती नाम ते भार्या रूपेणाप्रतिमा भुवि । विद्यतेsत्र कथं पत्नी तां न वेत्सि महीपते
राजोवाच। सुभद्राद्यास्तु या भार्या मम सन्ति गृहे विभो । जानामि तास्तु भगवन्न वै जानामि रेवतीम्
ऋषिरुवाच। प्रियेति सांप्रतं राजंस्त्वयोक्ता या महामते । सा विस्मृता क्षणादेव या ते श्लाघ्यतमा प्रिया ॥ राजोवाच। त्वयोक्तं यन्मृषा तन्नो तथैवामन्त्रिता मया । मुने दुष्टो न मे भावः कोपं मा कर्तुमर्हसि
ऋषिरुवाच। राजन्नुक्तं त्वया सत्यं न भावो दूषितस्तव । वह्निना प्रेरितेनेत्थं भवता 'व्याहृतं वचः
अद्य पृष्टो मया वह्निः कोऽस्या भर्त्ता भविष्यति । तेनोक्तं दुर्दमो राजा भविताऽस्याः पतिर्ध्रुवम्
तदादत्स्व मया दत्तामिमां कन्यां महीपते । प्रियेत्यामंत्रिता पूर्वं मा विचारं कुरुष्व भोः
श्रुत्वैतत्सोऽभवत्तूष्णीं चिंतयन्मुनिभाषितम् । वैवाहिकं विधिं तस्य मुनिः कर्तुं समुद्यतः
अथोद्यतं विवाहाय दृष्ट्वा कन्याऽब्रवीन्मुनिम् । रेवत्यृक्षे विवाहो मे तात कर्तुं त्वमर्हसि
ऋषिरुवाच । वत्से विवाहयोग्यानि सत्यन्यर्क्षाणि भूरिशः । रेवत्यां कथमुद्वाहः पौष्णभं न दिवि स्थितम्
कन्योवाच। रेवत्यृक्षं विना कालो ममोद्वाहोचितो न हि । अतः संप्रार्थयाम्येतद्विवाहं पौष्णभे कुरु
ऋषिरुवाच। ऋतवाङ्मुनिना पूर्वं रेवतीभं निपातितम् । भान्तरे चेन्न ते प्रीतिर्विवाहः स्यात्कथं तव
कन्योवाच। तपः किं तप्तवानेक ऋतवागेव केवलम् । भवता किं तपो नेदृक्तप्तं वाक्कायमानसः
जगत्स्रष्टुं समर्थस्त्वं वेद्म्यहं ते तपोबलम् । रेवत्यृक्षं दिवि स्थाप्य ममोद्वाहं पितः कुरु
ऋषिरुवाच। एवं भवतु भद्रं ते यथैव त्वं ब्रवीषि माम् । त्वत्कृते सोममार्गेऽहं स्थापयाम्यद्य पौष्णभम्
स्कन्द उवाच। एवमुक्त्वा मुनिस्तूर्णं पौष्णभं स्वतपोबलात् । यथापूर्वं तथा चक्रे सोममार्गे घटोद्भव
रेवतीनाम्नि नक्षत्रे विवाहविधिना मुनिः । रेवतीं प्रददौ राज्ञे दुर्द्दमाय महात्मने
कृत्वा विवाहं कन्याया मुनी राजानमब्रवीत् । किं तेऽभिलषितं वीर वद तत्पूरयाम्यहम्
राजोवाच। मनोः स्वायंभुवस्याहं वंशे जातोऽस्मि हे मुने । मन्वन्तराधिपं पुत्रं त्वत्प्रसादाच्च कामये
मुनिरुवाच। यद्येषा कामना तेऽस्ति देव्या आराधनं कुरु । भविष्यत्येव ते पुत्रो मनुर्मन्वंतराधिपः
देवीभागवतं नाम पुराणं यत्तु पंचमम् । पंचकृत्वस्तु तच्छ्रुत्वा लप्स्यसे ऽभिमतं सुतम्
रेवत्या रैवतो नाम पंचमो भविता मनुः । वेदविच्छास्त्रतत्त्वज्ञो धर्मवानपराजितः
पितृपैतामहं राज्यं चकार स महामतिः । पालयामास धर्मात्मा प्रजाः पुत्रानिवौरसान्
एकदा लोमशो नाम महात्मा मुनिरागतः । प्रणिपत्य तमभ्यर्च्य प्रांजलिश्चाब्रवीन्नृपः
राजोवाच। भगवंस्त्वत्प्रसादेन श्रोतुमिच्छामि भो मुने । देवी भागवतं नाम पुराणं पुत्रलिप्सया