समाहृत्य प्रजाः सर्वाः सचिवान्सर्वशः शुभान्
कृत्वा तं युवराजानं पुत्रं सर्वगुणान्वितम्
सूत उवाच गांगेयस्य तथोत्पत्तिं जाह्नव्याः संभवं तथा
गंगावतरणं पुण्यं वसूनां संभवं तथा
पुण्यं पवित्रमाख्यानं कथितं मुनिसत्तमः
श्रीमद्भागवतं पुण्यं नानाख्यानकथान्वितम्
शृण्वतां सर्वपापघ्नं शुभदं सुखदं तथा
देवव्रतप्रतिज्ञावर्णनम् ऋषय ऊचुः वसूनां सम्भवः सूत कथितः शापकारणात् । गाङ्गेयस्य तथोत्पत्तिः कथिता लोमहर्षणे
माता व्यासस्य धर्मज्ञ नाम्ना सत्यवती सती । कथं शन्तनुना प्राप्ता भार्या गन्धवती शुभा
तन्ममाचक्ष्व विस्तारं दाशपुत्री कथं धृता । राज्ञा धर्मवरिष्ठेन संशयं छिन्धि सुव्रत
सूत उवाच शन्तनुर्नाम राजर्षिर्मृगयानिरतः सदा । वनं जगाम निघ्नन्वै मृगांश्च महिषान् रुरून्
चत्वार्येव तु वर्षाणि पुत्रेण सह भूपतिः । रममाणः सुखं प्राप कुमारेण यथा हरः
एकदा विक्षिपन्बाणान्विनिघ्नन्खड्गसूकरान् । स कदाचिद्वनं प्राप्तः कालिन्दीं सरितां वराम्
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् । तस्य प्रभवमन्विच्छन्सजञ्चचार वनं तदा
न मन्दारस्य गन्धोऽयं मृगनाभिमदस्य न । चम्पकस्य न मालत्या न केतक्या मनोहरः
न चानुभूतपूर्वोऽयं वाति गन्धवहः शुभः । कुतोऽयमेति वायुर्वै मम घ्राणविमोहनः
इति सञ्चिन्त्यमानोऽसौ बभ्राम वनमण्डलम् । मोहितो गन्धलोभेन शन्तनुः पवनानुगः
स ददर्श नदीतीरे संस्थितां चारुदर्शनाम् । शृङ्गाररहितां कान्तां सुस्थितां मलिनाम्बराम्
दृष्ट्वा तामसितापाङ्गीं विस्मितः स महीपतिः । अस्या देहस्य गन्धोऽयमिति सञ्जातनिश्चयः
तदद्भुतं रूपमतीव सुन्दरं तथैव गन्धोऽखिललोकसम्मतः । वयश्च तादृङ् नवयौवनं शुभं दृष्ट्वैव राजा किल विस्मितोऽभवत्
केयं कुतो वा समुपागताधुना देवाङ्गना वा किमु मानुषी वा । गन्धर्वपुत्री किल नागकन्या जाने कथं गन्धवतीं नु कामिनीम्
सञ्चिन्त्य चैवं मनसा नृपोऽसौ न निश्चयं प्राप यदा ततः स्वयम् । गङ्गां स्मरन्कामवशं गतोऽथ पप्रच्छ कान्तां तटसंस्थितां च
कासि प्रिये कस्य सुतासि कस्मा- दिह स्थिता त्वं विजने वरोरु । एकाकिनी किं वद चारुनेत्रे विवाहिता वा न विवाहितासि
सञ्जातकामोऽहमरालनेत्रे त्वां वीक्ष्य कान्तां च मनोरमां च । ब्रूहि प्रिये यासि चिकीर्षसि त्वं किं चेति सर्वं मम विस्तरेण
इत्येवमुक्ता सुदती नृपेण प्रोवाच तं सस्मितमम्बुजेक्षणा । दाशस्य पुत्रीं त्वमवेहि राजन् कन्यां पितुः शासनसंस्थितां च
तरीमिमां धर्मनिमित्तमेव संवाहयामीह जले नृपेन्द्र । पिता गृहे मेऽद्य गतोऽस्ति कामं सत्यं ब्रवीम्यर्थपते तवाग्रे
इत्येवमुक्त्वा विरराम बाला कामातुरस्तां नृपतिर्बभाषे । कुरुप्रवीरं कुरु मां पतिं त्वं वृथा न गच्छेन्ननु यौवनं ते
न चास्ति पत्नी मम वै द्वितीया त्वं धर्मपत्नी भव मे मृगाक्षि । दासोऽस्मि तेऽहं वशगः सदैव मनोभवस्तापयति प्रिये माम्
गता प्रिया मां परिहृत्य कान्ता नान्या वृताहं विधुरोऽस्मि कान्ते । त्वां वीक्ष्य सर्वावयवातिरम्यां मनो हि जातं विवशं मदीयम्
श्रुत्वामृतास्वादरसं नृपस्य वचोऽतिरम्यं खलु दाशकन्या । उवाच तं सात्त्विकभावयुक्ता कृत्वातिधैर्यं नृपतिं सुगन्धा