इत्युक्ताऽपि गृहीत्वा तं यदा गंतुं समुत्सुका
पापिष्ठे किं करोम्यद्य निरयान्न बिभेषि किम्
यथेच्छं गच्छ वा तिष्ठ पुत्रो मे स्थीयतामिह
एवं वदति भूपाले सा गृहीत्वा सुतं शिशुम्
पुत्रकामा सुतं त्वेनं पालयामि वने गता
गगां मां वै विजानीहि देवकार्यार्थमागताम्
व्रजंतु मानुषी योनिं स्थितां चिंतातुरास्तु माम्
तेभ्यो दत्त्वा वरं जाता पत्नी ते नृपसत्तम 2.4.
सप्त ते वसवः पुत्रा मुक्ताः शापादृषेस्तु ते
गंगादत्तमिमं पुत्रं गृहाण शंतनो स्वयम्
गांगेयोऽयं महाभाग भविष्यति बलाधिकः
दास्यामि यौवनप्राप्तं पालयित्वा महीपते
इत्युक्ताऽन्तर्दधे गंगा तं गृहीत्वा च बालकम्
भार्याविरहजं दुःखं तथा पुत्रस्य चाद्भुतम्
एवं गच्छति कालेऽथ नृपतिर्मृगयां गतः
गंगातीरमनुप्राप्तः स राजा शंतनुस्तदा
तत्रापश्यत्कुमारं तं मुंचंतं विशिखान्बहून्
तं वीक्ष्य विस्मितो राजा न स्म जानाति किंचन 2.4.
दृष्ट्वाऽप्यमानुषं कर्म बाणेषु लघुहस्तताम्
पप्रच्छ विस्मितो राजा कस्य पुत्रोऽसि चानघ
अंतर्धानं गतः सोऽथ राजा चिंतातुरोऽभवत्
गंगां तुष्टाव भूपालः स्थितस्तत्र समाहितः
दृष्ट्वा तां चारुसर्वांगीं बभाषे नृपतिः स्वयम्
गंगोवाच ददामि तव हस्ते तु गांगेयोऽयं महातपाः
कीर्तिकर्ता कुलस्यास्य भविता तव सुव्रतः
वसिष्ठस्याश्रमे दिव्ये संस्थितोऽयं सुतस्तव
यद्वेद जामदग्न्योऽसौ तद्वेदायं सुतस्तव
इत्युक्वांऽतर्दधे गंगा दत्त्वा पुत्रं नृपाय वै 2.4.
समालिंग्य सुतं राजा समाघ्राय च मस्तकम्
गत्वा गजाह्वयं राजा चकारोत्सवमुत्तमम्