दृष्ट्वा तां नृपतिर्मग्नः पित्रोक्तेयं वरानना
पिबन्मुखांबुजं तस्या न तृप्तिमग्मन्नृपः
महाभिषं साऽपि मत्वा प्रेमयुक्ता बभूव ह
वीक्ष्य तामसितापांगीं राजा प्रीतमना भृशम्
देवी वा त्वं च वामोरु मानुषी वा वरानने
याऽसि काऽसि वरारोहे भार्या मे भव सुंदरि
सूत उवाच महाभिषं समुत्पन्नं नृपं जानाति जाह्नवी
पूर्वप्रेमसमायोगाच्छ्रुत्वा वाचं नृपस्य ताम् 2.4.
स्त्र्युवाच का न वांछति चार्वंगी भावित्वात्सदृशं पतिम्
वाग्बंधेन नृपश्रेष्ठ चरिष्यामि पतिं किल
यच्च कुर्यामहं कार्यं शुभं वा यदि वाऽशुभम्
यदा च त्वं नृपश्रेष्ठ न करिष्यसि मे वचः
स्मृत्वा जन्म वसूनां सा प्रार्थनापूर्वकं हृदि
तथेत्युक्ताऽथ सा देवी चकार नृपतिं पतिम्
नृपस्य मंदिरं प्राप्ता सुभगा वरवर्णिनी
साऽपि तं रमयामास भावज्ञा वै वरांगना
स तया मृगशावाक्ष्या शच्या शतक्रतुर्यथा
रेमाते मंदिरे दिव्ये रमाना रायणाविव 2.4.
गर्भं गंगा वसुं पुत्रं सुषुवे चारुलोचना
तृतीयेऽथ चतुर्थेऽथ पंचमे षष्ठ एव च
किं करोम्यद्य वंशो मे कथं स्यात्सुस्थिरो भुवि
निवारयामि यदि मां त्यक्त्वा यास्यति सर्वथा
न वारयामि चेदद्य सर्वथेयं जले क्षिपेत्
संभवेऽपि च दुष्टेयं रक्षयेद्वा न रक्षयेत्
वंशस्य रक्षणार्थं हि यत्नः कार्यः परो मया
मुनेर्येन हृता धेनुर्नंदिनी स्त्रीजितेन हि
दासोऽस्मि तव तन्वंगि प्रार्थयामि शुचिस्मिते
हिंसिताः सप्त पुत्रा मे करभोरु त्वया शुभाः 2.4.
अन्यद्वै प्रार्थितं तेऽद्य ददाम्यथ च दुर्लभम्
अपुत्रस्य गतिर्नास्ति स्वर्गे वेदविदो विदुः