आजगामाऽऽश्रमपदं फलान्यादाय सत्वरः
मृगयामास तेजस्वी गह्वरेषु वनेष्वपि
वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम्
तस्मात्सर्वे जनिष्यंति मानुषेषु न संशयः
श्रुत्वा विमनसः सर्वे प्रययुर्दुःखिताश्च ते
प्रसादयंतस्तमृषिं वसव शरणं गताः
अनुसंवत्सरं सर्वे शापमोक्षमवाप्स्यथ
तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति 2.3.
ऊचुस्तां प्रणताः सर्वे शप्तां चिंतातुरां नदीम्
मानुषाणां च जठरं चिंतेयं महती हि नः
शंतनुर्नाम राजर्षिस्तस्य भार्या भवानघे
एवं शापविनिर्मोक्षो भविता नात्र संशयः
गंगाऽपि निर्गता देवी चिंत्यमाना पुनः पुनः
शंतनुर्नाम राजर्षिर्धर्मात्मा सत्यसंगरः
तदा च सलिलात्तस्मान्निःसृता वरवर्णिनी
अंके स्थितां स्त्रियं चाह मापृष्ट्वा किं वरानने
सा तमाह वरारोहा यदर्थं राजसत्तम
तामवोचदथो राजा रूपयौवनशालिनीम् 2.3.
स्थिता दक्षिणमूरुं मे त्वमाश्लिष्य च भामिनि
स्नुषा मे भव कल्याणि जाते पुत्रेऽतिवाञ्छिते
तथेत्युक्ता गता सा वै कामिनी दिव्य दर्शना
ततः कालेन कियता जाते पुत्रे वयस्विनि
वृत्तांतं कथयित्वा तु पुनरूचे निजं सुतम्
कामयाना वरारोहा ता भजेथा मनोरमाम्
धर्मपत्नीं च तां कृत्वा भविता त्वं सुखी किल एवं संदिश्य तं पुत्रं भूपतिः प्रीतमानसः
दत्त्वा राज्यश्रियं सर्वां वनं राजा विवेश ह
जगाम स्वर्गं राजाऽसौ देहं त्यक्त्वा स्वतेजसा
प्रजां वै पालयामास धर्मदंडो महीपतिः ।। 2.3.
देवव्रतोत्पतिवर्णनम् सूत उवाच बभूव मृगयाशीलो निघ्नन्व्याघ्रान्मृगान्नृपः
स कदाचिद्वने घोरे गंगातीरे चरन्नृपः