जुगुप्सितमिदं कर्म स कथं कृतवान्मुनिः
व्यास शिष्योऽसि मेधाविन्संदेहं छेत्तुमर्हसि
सूत उवाच सत्यवान्धर्मशीलश्च चक्रवर्ती नृपोत्तमः
अश्वमेधसहस्रेण वाजपेयशतेन च ।। तोषयामास देवेंद्रं स्वर्गं प्राप महामतिः
एकदा ब्रह्मसदनं गतो राजा महाभिषः
गंगा महानदी तत्र संस्थिता सेवितुं विभुम्
अधोमुखाः सुराः सर्वे न विलोक्यैव तां स्थिताः
साऽपि तं प्रेमसंयुक्तं नृपं ज्ञातवती नदी 2.3.
ब्रह्मा चुकोप तौ तूर्णं शशाप च रुषाऽन्वितः
पुण्येन महताऽऽविष्टस्त्वमवाप्स्यसि सर्वथा
विमनस्कौ तु तौ तूर्णं निःसृतौ ब्रह्मणोंऽतिकात्
प्रतीपं चिंतयामास पितरं पुरुवंशजम्
वसिष्ठस्याऽऽश्रमं प्राप्ता रममाणा यदृच्छया
द्यौर्नामा तस्य भार्याऽथ नंदिनीं गां ददर्श ह
द्यौस्तामाह वसिष्ठस्य गौरियं शृणु सुंदरि
अयुतायुर्भवेन्यूनं सदैवाऽगतयौवनः
उशीनरस्य राजर्षेः पुत्री परमशोभना
आनयस्वाऽऽश्रमश्रेष्ठं नंदिनीं कामदां शुभाम् 2.3.
मानुषेषु भवेदेका जरारोगविवर्जिता
अवमन्य मुनिं दांतं पृथ्वाद्यैः सहितोऽनघः
आजगामाऽऽश्रमपदं फलान्यादाय सत्वरः
मृगयामास तेजस्वी गह्वरेषु वनेष्वपि
वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम्
तस्मात्सर्वे जनिष्यंति मानुषेषु न संशयः
श्रुत्वा विमनसः सर्वे प्रययुर्दुःखिताश्च ते
प्रसादयंतस्तमृषिं वसव शरणं गताः
अनुसंवत्सरं सर्वे शापमोक्षमवाप्स्यथ
तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति 2.3.
ऊचुस्तां प्रणताः सर्वे शप्तां चिंतातुरां नदीम्
मानुषाणां च जठरं चिंतेयं महती हि नः