शिष्यानध्यापयामास वेदान्कृत्वा विभागशः । सुमन्तुं जैमिनिं पैलं वैशम्पायनमेव च
असितं देवलं चैव शुकं चैव स्वमात्मजम् । सूत उवाच एतच्च कथितं सर्वं कारणं मुनिसत्तमाः
सत्यवत्याः सुतस्यापि समुत्पत्तिस्तथा शुभा । संशयोऽत्र न कर्तव्यः सम्भवे मुनिसत्तमाः
महतां चरिते चैव गुणा ग्राह्या मुनेरिति । कारणाच्च समुत्पत्तिः सत्यवत्या झषोदरे
पराशरेण संयोगः पुनः शन्तनुना तथा । अन्यथा तु मुनेश्चित्तं कथं कामाकुलं भवेत्
अनार्यजुष्टं धर्मज्ञः कृतवान्स कथं मुनिः । सकारणेयमुत्पत्तिः कथिताश्चर्यकारिणी
श्रुत्वा पापाच्च निर्मुक्तो नरो भवति सर्वथा । य एतच्छुभमाख्यानं शृणोति श्रुतिमान्नरः
न दुर्गतिमवाप्नोति सुखी भवति सर्वदा
प्रतीपसकाशाच्छन्तनुजन्मादिवर्णनम् उत्पत्तिस्तु त्वया प्रोक्ता व्यासस्यामिततेजसः
तथाऽप्येकस्तु संदेहश्चित्तेऽस्माकं सुसंस्थितः
माता व्यासस्य या प्रोक्ता नाम्ना सत्यवती शुभा
निषादपुत्रीं स कथं वृतवान्नृपतिः स्वयम्
शंतनोः प्रथमा पत्नी का ह्यभूत्कथयाधुना
त्वया प्रोक्तं पुरा सूत राजा चित्रांगदः कृतः
चित्रांगदे हते वीरे कृतस्तदनुजस्तथा
ज्येष्ठे भीष्मे स्थिते पूर्वे धमिष्ठं रूपवत्यपि
मृते विचित्रवीर्ये तु सत्यवत्यतिदुःखिता
कथं राज्यं न भीष्माय ददौ सा वरवर्णिनी 2.3.
अधर्मस्तु कृतः कस्माद्व्यासेनामिततेजसा
पुराणकर्ता धर्मात्मा स कथं कृतवान्मुनिः
जुगुप्सितमिदं कर्म स कथं कृतवान्मुनिः
व्यास शिष्योऽसि मेधाविन्संदेहं छेत्तुमर्हसि
सूत उवाच सत्यवान्धर्मशीलश्च चक्रवर्ती नृपोत्तमः
अश्वमेधसहस्रेण वाजपेयशतेन च ।। तोषयामास देवेंद्रं स्वर्गं प्राप महामतिः
एकदा ब्रह्मसदनं गतो राजा महाभिषः
गंगा महानदी तत्र संस्थिता सेवितुं विभुम्
अधोमुखाः सुराः सर्वे न विलोक्यैव तां स्थिताः
साऽपि तं प्रेमसंयुक्तं नृपं ज्ञातवती नदी 2.3.
ब्रह्मा चुकोप तौ तूर्णं शशाप च रुषाऽन्वितः
पुण्येन महताऽऽविष्टस्त्वमवाप्स्यसि सर्वथा