कामिनी तं मुनिं प्राह मृदुपूर्वमिदं वचः । कन्याहं द्विजशार्दूल भुक्त्वा गन्तासि कामतः
अमोघवीर्यस्त्वं ब्रह्मन् का गतिर्मे भवेदिति । पितरं किं ब्रवीम्यद्य सगर्भा चेद्भवाम्यहम्
त्वं गमिष्यसि भुक्त्वा मां किं करोमि वदस्व तत् । पराशर उवाच कान्तेऽद्य मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि । सत्यवत्युवाच यथा मे पितरौ लोके न जानीतो हि मानद
कन्याव्रतं न मे हन्यात्तथा कुरु द्विजोत्तम । पुत्रश्च त्वत्समः कामं भवेदद्भुतवीर्यवान्
गन्धोऽयं सर्वदा मे स्याद्यौवनं च नवं नवम् । पराशर उवाच शृणु सुन्दरि पुत्रस्ते विष्ण्वंशसम्भवः शुचिः
भविष्यति च विख्यातस्त्रैलोक्ये वरवर्णिनि । केनचित्कारणेनाहं जातः कामातुरस्त्वयि
कदापि च न सम्मोहो भूतपूर्वो वरानने । दृष्ट्वा चाप्सरसां रूपं सदाहं धैर्यमावहम्
दैवयोगेन वीक्ष्य त्वां कामस्य वशगोऽभवम् । तत्किञ्चित्कारणं विद्धि दैवं हि दुरतिक्रमम्
दृष्ट्वाहं चातिदुर्गन्धां त्वां कथं मोहमाप्नुयाम् । पुराणकर्ता पुत्रस्ते भविष्यति वरानने
वेदविद्भागकर्ता च ख्यातश्च भुवनत्रये । सूत उवाच इत्युक्त्वा तां वशं यातां भुक्त्वा स मुनिसत्तमः
जगाम तरसा स्नात्वा कालिन्दीसलिले मुनिः । सापि सत्यवती जाता सद्यो गर्भवती सती
सुषुवे यमुनाद्वीपे पुत्रं काममिवापरम् । जातमात्रस्तु तेजस्वी तामुवाच स्वमातरम्
तपस्येव मनः कृत्वा विविशे चातिवीर्यवान् । गच्छ मातर्यथाकामं गच्छाम्यहमतः परम्
तपः कर्तुं महाभागे दर्शयिष्यामि वै स्मृतः । मातर्यदा भवेत्कार्यं तव किञ्चिदनुत्तमम्
स्मर्तव्योऽहं तदा शीघ्रमागमिष्यामि भामिनि । स्वस्ति तेऽस्तु गमिष्यामि त्यक्त्वा चिन्तां सुखं वस
इत्युक्त्वा निर्ययौ व्यासः सापि पित्रन्तिकं गता । द्वीपे न्यस्तस्तया बालस्तस्माद्द्वैपायनोऽभवत्
जातमात्रो जगामाशु वृद्धिं विष्ण्वंशयोगतः । तीर्थे तीर्थे कृतस्तानश्चचार तप उत्तमम्
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् । चकार वेदशाखाश्च प्राप्तं ज्ञात्वा कलेर्युगम्
वेदविस्तारकरणाद्व्यासनामाभवन्मुनिः । पुराणसंहिताश्चक्रे महाभारतमुत्तमम्
शिष्यानध्यापयामास वेदान्कृत्वा विभागशः । सुमन्तुं जैमिनिं पैलं वैशम्पायनमेव च
असितं देवलं चैव शुकं चैव स्वमात्मजम् । सूत उवाच एतच्च कथितं सर्वं कारणं मुनिसत्तमाः
सत्यवत्याः सुतस्यापि समुत्पत्तिस्तथा शुभा । संशयोऽत्र न कर्तव्यः सम्भवे मुनिसत्तमाः
महतां चरिते चैव गुणा ग्राह्या मुनेरिति । कारणाच्च समुत्पत्तिः सत्यवत्या झषोदरे
पराशरेण संयोगः पुनः शन्तनुना तथा । अन्यथा तु मुनेश्चित्तं कथं कामाकुलं भवेत्
अनार्यजुष्टं धर्मज्ञः कृतवान्स कथं मुनिः । सकारणेयमुत्पत्तिः कथिताश्चर्यकारिणी
श्रुत्वा पापाच्च निर्मुक्तो नरो भवति सर्वथा । य एतच्छुभमाख्यानं शृणोति श्रुतिमान्नरः
न दुर्गतिमवाप्नोति सुखी भवति सर्वदा
प्रतीपसकाशाच्छन्तनुजन्मादिवर्णनम् उत्पत्तिस्तु त्वया प्रोक्ता व्यासस्यामिततेजसः
तथाऽप्येकस्तु संदेहश्चित्तेऽस्माकं सुसंस्थितः