दयावान्ब्राह्मणः प्राह तां तदा रुदतीं स्त्रियम् । मा शोकं कुरु कल्याणि शापान्तं ते वदाम्यहम्
मत्कोधशापयोगेन मत्स्ययोनिं गता शुभे । मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि
इत्युक्ता तेन सा प्राप मत्स्यदेहं नदीजले । बालकौ जनयित्वा सा मृता मुक्ता च शापतः
सन्त्यज्य रूपं मत्स्यस्य दिव्यरूपमवाप्य च । जगामामरमार्गं च शापान्ते वरवर्णिनी
एवं जाता वरा पुत्री मत्स्यगन्धा वरानना । पुत्रीव पाल्यमाना सा दाशगेहे व्यवर्धत
मत्स्यगन्धा तदा जाता किशोरी चातिसुप्रभा । तस्य कार्याणि कुर्वाणा वासवी चातिसुप्रभा
व्यासजन्मवर्णनम् सूत उवाच एकदा तीर्थयात्रायां व्रजन् पाराशरो मुनिः । आजगाम महातेजाः कालिन्द्यास्तटमुत्तमम्
निषादमाह धर्मात्मा कुर्वन्तं भोजनं तदा । प्रापयस्व परं पारं कालिन्द्या उडुपेन माम्
दाशः श्रुत्वा मुनेर्वाक्यं कुर्वाणो भोजनं तटे । उवाच तां सुतां बालां मत्स्यगन्धां मनोरमाम्
उडुपेन मुनिं बाले परं पारं नयस्व ह । गन्तुकामोऽस्ति धर्मात्मा तापसोऽयं शुचिस्मिते
इत्युक्ता सा तदा पित्रा मत्स्यगन्धाथ वासवी । उडुपे मुनिमासीनं संवाहयति भामिनी
व्रजन् सूर्यसुतातोये भावित्वाद्दैवयोगतः । कामार्तस्तु मुनिर्जातो दृष्ट्वा तां चारुलोचनाम्
ग्रहीतुकामः स मुनिर्दृष्ट्वा व्यञ्जितयौवनाम् । दक्षिणेन करेणैनामस्पृशद्दक्षिणे करे
तमुवाचासितापाङ्गी स्मितपूर्वमिदं वचः । कुलस्य सदृशं वः किं श्रुतस्य तपसश्च किम्
त्वं वै वसिष्ठदायादः कुलशीलसमन्वितः । किं चिकीर्षसि धर्मज्ञ मन्मथेन प्रपीडितः
दुर्लभं मानुषं जन्म भुवि ब्राह्मणसत्तम । तत्रापि दुर्लभं मन्ये ब्राह्मणत्वं विशेषतः
कुलेन शीलेन तथा श्रुतेन द्विजोत्तमस्त्वं किल धर्मविच्च । अनार्यभावं कथमागतोऽसि विप्रेन्द्र मां वीक्ष्य च मीनगन्धाम्
मदीये शरीरे द्विजामोघबुद्धे ॥ शुभं किं समालोक्य पाणिं ग्रहीतुम् । समीपं समायासि कामातुरस्त्वं कथं नाभिजानासि धर्मं स्वकीयम्
अहो मन्दबुद्धिर्द्विजोऽयं ग्रहीष्य- ञ्जले मग्न एवाद्य मां वै गृहीत्वा । मनो व्याकुलं पञ्चबाणातिविद्धं न कोऽपीह शक्तः प्रतीपं हि कर्तुम्
इति सञ्चिन्त्य सा बाला तमुवाच महामुनिम् । धैर्यं कुरु महाभाग परं पारं नयामि वै
सूत उवाच पराशरस्तु तच्छ्रुत्वा वचनं हितपूर्वकम् । करं त्यक्त्वा स्थितस्तत्र सिन्धोः पारं गतः पुनः
मत्स्यगन्धां प्रजग्राह मुनिः कामातुरस्तदा । वेपमाना तु सा कन्या तमुवाच पुरःस्थितम्
दुर्गन्धाहं मुनिश्रेष्ठ कथं त्वं नोपशङ्कसे । समानरूपयोः कामसंयोगस्तु सुखावहः
इत्युक्तेन तु सा कन्या क्षणमात्रेण भामिनी । कृता योजनगन्धा तु सुरूपा च वरानना
मृगनाभिसुगन्धां तां कृत्वा कान्तां मनोहराम् । जग्राह दक्षिणे पाणौ मुनिर्मन्मथपीडितः
ग्रहीतुकामं तं प्राह नाम्ना सत्यवती शुभा । मुने पश्यति लोकोऽयं पिता चैव तटस्थितः
पशुधर्मो न मे प्रीतिं जनयत्यतिदारुणः । प्रतीक्षस्व मुनिश्रेष्ठ यावद्भवति यामिनी
रात्रौ व्यवाय उद्दिष्टो दिवा न मनुजस्य हि । दिवासङ्गे महान् दोषः पश्यन्ति किल मानवाः
कामं यच्छ महाबुद्धे लोकनिन्दा दुरासदा । तच्छ्रुत्वा वचनं तस्या युक्तमुक्तमुदारधीः
नीहारं कल्पयामास शीघ्रं पुण्यबलेन वै । नीहारे च समुत्पन्ने तटेऽतितमसा युते