एतन्निशम्य वचनं गर्गाचार्यो मुनेस्तदा । विचार्य सर्वं तद्धेतुं ज्योतिर्विद्वाचमब्रवीत्
गर्ग उवाच। मुने नैवापराधस्ते न मातुर्न कुलस्य च । रेवत्यंतं तु गण्डान्तं पुत्रदौःशील्यकारणम्
दुष्टे काले यतो जन्म पुत्रस्य तव भो मुने । तेनैव तव दुःखाय नान्यो हेतुर्मनागपि
तद्दुःखशांतये ब्रह्मञ्जगतां मातरं शिवाम् । समाराधय यत्नेन दुर्गां दुर्गतिनाशिनीम्
गर्गस्य वचनं श्रुत्वा ऋतवाक् क्रोधमूर्च्छितः । रेवतीं तु शशापासौ व्योम्नः पततु रेवती
दत्ते शापे तु तेनाथ पूष्णो भं च पपात खात् । कुमुदाद्रौ भासमानं सर्वलोकस्य पश्यतः
ख्यातो रैवतकश्चाभूत्तत्पातात्कुमुदाचल: । अतीव रमणीयश्च ततः प्रभृति सोऽप्यभूत्
दत्त्वा शापं च रेवत्यै गर्गोक्तविधिना मुनिः । समाराध्यांबिकां देवीं सुखसौभाग्यभागभूत्
स्कन्द उवाच। रेवत्यृक्षस्य यत्तेजस्तस्माज्जाता तु कन्यका । रूपेणाप्रतिमा लोके द्वितीया श्रीरिवाभवत्
अथ तां प्रमुचः कन्यां रेवतीकांतिसंभवाम् । दृष्ट्वा नाम चकारास्या रेवतीति मुदा मुनिः
निन्येऽथ स्वाश्रमे चैनां पोषयामास धर्मतः । ब्रह्मर्षिः प्रमुचो नाम कुमुदाद्रौ सुतामिव
अथ कालेन च प्रौढां दृष्ट्वा तां रूपशालिनीम् । स मुनिश्चिन्तयामास कोऽस्या योग्यो वरो भवेत्
बहुधाऽन्वेषयंस्तस्या नाससादोचितं पतिम् । ततोग्निशालां संविश्य मुनिस्तुष्टाव पावकम्
कन्यावरं तदाशंसत्प्रीतस्तमपि हव्यवाट् । धर्मिष्ठो बलवान्वीरः प्रियवागपराजितः
दुर्दमो भविता भर्ता मुनेऽस्याः पृथिवीपतिः । इति श्रुत्वा वचो वह्नेः प्रसन्नोभून्मुनिस्तदा
दैवादाखेटकव्याजात्तत्क्षणादागतो नृपः । दुर्दमो नाम मेधावी तस्याश्रमपदं मुनेः
पुत्रो विक्रमशीलस्य बलवान् वीर्यवत्तरः । कालिन्दीजठरे जातः प्रियव्रतकुलोद्भवः
मुनेराश्रममाविश्य तमदृष्वातक महामुनिम् । आमंत्र्य तां प्रिये चेति रेवतीं पृष्टवान्नृपः
राजोवाच। महर्षिर्भगवानस्मादाश्रमात्व्त गतः प्रिये । तत्पादौ द्रष्टुमिच्छामि वद कल्याणि तत्त्वतः
कन्योवाच। अग्निशालामुपगतो महाराज महामुनिः । निश्चक्रामाश्रमात्तूर्णं राजाप्याकर्ण्य तद्वचः
तथाऽग्निशालाद्वारस्थं राजानं दुर्दमं मुनिः । राजलक्षणसंयुक्तमपश्यत्प्रश्रयानतम्
प्रणनाम च तं राजा मुनिः शिष्यमुवाच ह । गौतमानीयतामर्घ्यमर्घ्ययोग्योऽस्ति भूपतिः
आगतश्चिरकालेन जामातेति विशेषतः । इत्युक्त्वार्घ्यं ददौ तस्मै सोपि जग्राह चिन्तयन्
मुनिरासनमासीनं गृहीतार्घ्यं च भूपतिम् । आशीर्भिरभिनंद्याथ कुशलं चाप्यपृच्छत
अपि तेऽनामयं राजन्बले कोशे सुहृत्सु च । भृत्येऽमात्ये पुरे देशे तथात्मनि जनाधिप
भार्याऽस्ति ते कुशलिनी यतः सात्रैव तिष्ठति । अतो न पृच्छाम्यस्यास्ते चान्यासां कुशलं वद ॥ राजोवाच। भगवंस्त्वत्प्रसादेन सर्वत्रानामयं मम । एतत्कुतूहलं ब्रह्मन्मद्भार्या काsत्र विद्यते
ऋषिरुवाच। रेवती नाम ते भार्या रूपेणाप्रतिमा भुवि । विद्यतेsत्र कथं पत्नी तां न वेत्सि महीपते
राजोवाच। सुभद्राद्यास्तु या भार्या मम सन्ति गृहे विभो । जानामि तास्तु भगवन्न वै जानामि रेवतीम्
ऋषिरुवाच। प्रियेति सांप्रतं राजंस्त्वयोक्ता या महामते । सा विस्मृता क्षणादेव या ते श्लाघ्यतमा प्रिया ॥ राजोवाच। त्वयोक्तं यन्मृषा तन्नो तथैवामन्त्रिता मया । मुने दुष्टो न मे भावः कोपं मा कर्तुमर्हसि
ऋषिरुवाच। राजन्नुक्तं त्वया सत्यं न भावो दूषितस्तव । वह्निना प्रेरितेनेत्थं भवता 'व्याहृतं वचः