मत्प्रियार्थमिदं सौम्य गृहीत्वा त्वं गृहं नय । गिरिकायै प्रयच्छाशु तस्यास्त्वार्तवमद्य वै
सूत उवाच इत्युक्त्वा प्रददौ पर्णं श्येनाय नृपसत्तमः । स गृहीत्वोत्पपाताशु गगनं गतिवित्तमः
गच्छन्तं गगनं श्येनं धृत्वा चञ्चुपुटे पुटम् । तमपश्यदथायान्तं खगं श्येनस्तथापरः
आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत्खगम् । तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः
युद्ध्यतोरपतद्रेतस्तज्जापि यमुनाम्भसि । खगौ तौ निर्गतौ कामं पुटके पतिते तदा
एतस्मिन्समये काचिद्अद्रिका नाम चाप्सराः । ब्राह्मणं समनुप्राप्तं सन्ध्यावन्दनतत्परम्
कुर्वन्ती जलकेलिं सा जले मग्ना चचार सा । जग्राह चरणं नारी द्विजस्य वरवर्णिनी
प्राणायामपरः सोऽथ दृष्ट्वा तां कामचारिणीम् । शशाप भव मत्स्यी त्वं ध्यानविघ्नकरी यतः
सा शप्ता विप्रमुख्येन बभूव यमुनाचरी । शफरी रूपसम्पन्ना ह्यद्रिका च वराप्सराः
श्येनपादपरिभ्रष्टं तच्छुक्रमथ वासवी । जग्राह तरसाभ्येत्य साद्रिका मत्स्यरूपिणी
अथ कालेन कियता मत्स्यीं तां मत्स्यजीवनः । सम्प्राप्ते दशमे मासि बबन्ध तां मनोरमाम्
उदरं विददाराशु स तस्या मत्स्यजीवनः । युग्मं विनिःसृतं तस्मादुदरान्मानुषाकृति
बालः कुमारः सुभगस्तथा कन्या शुभानना । दृष्ट्वाश्चर्यमिदं सोऽथ विस्मयं परमं गतः
राज्ञे निवेदयामास पुत्रौ द्वौ तु झषोद्भवौ । राजापि विस्मयाविष्टः सुतं जग्राह तं शुभम्
स मत्स्यो नाम राजासौ धार्मिकः सत्यसङ्गरः । वसुपुत्रो महातेजाः पित्रा तुल्यपराक्रमः
कालिका वसुना दत्ता तरसा जलजीविने । नाम्ना कालीति विख्याता तथा मत्स्योदरीति च
मत्स्यगन्धेति नाम्ना वै गणेन समजायत । विवर्धमाना दाशस्य गृहे सा वासवी शुभा
ऋषय ऊचुः अद्रिका मुनिना शप्ता मत्स्यी जाता वराप्सराः । विदारिता च दाशेन मृता च भक्षिता पुनः
किं बभूव पुनस्तस्या अप्सराया वदस्व तत् । शापस्यान्तं कथं सूत कथं स्वर्गमवाप सा
सूत उवाच शप्ता यदा सा मुनिना विस्मिता सम्बभूव ह । स्तुतिं चकार विप्रस्य दीनेव रुदती तदा
दयावान्ब्राह्मणः प्राह तां तदा रुदतीं स्त्रियम् । मा शोकं कुरु कल्याणि शापान्तं ते वदाम्यहम्
मत्कोधशापयोगेन मत्स्ययोनिं गता शुभे । मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि
इत्युक्ता तेन सा प्राप मत्स्यदेहं नदीजले । बालकौ जनयित्वा सा मृता मुक्ता च शापतः
सन्त्यज्य रूपं मत्स्यस्य दिव्यरूपमवाप्य च । जगामामरमार्गं च शापान्ते वरवर्णिनी
एवं जाता वरा पुत्री मत्स्यगन्धा वरानना । पुत्रीव पाल्यमाना सा दाशगेहे व्यवर्धत
मत्स्यगन्धा तदा जाता किशोरी चातिसुप्रभा । तस्य कार्याणि कुर्वाणा वासवी चातिसुप्रभा
व्यासजन्मवर्णनम् सूत उवाच एकदा तीर्थयात्रायां व्रजन् पाराशरो मुनिः । आजगाम महातेजाः कालिन्द्यास्तटमुत्तमम्
निषादमाह धर्मात्मा कुर्वन्तं भोजनं तदा । प्रापयस्व परं पारं कालिन्द्या उडुपेन माम्
दाशः श्रुत्वा मुनेर्वाक्यं कुर्वाणो भोजनं तटे । उवाच तां सुतां बालां मत्स्यगन्धां मनोरमाम्
उडुपेन मुनिं बाले परं पारं नयस्व ह । गन्तुकामोऽस्ति धर्मात्मा तापसोऽयं शुचिस्मिते