तस्याः पुत्रः कथं व्यासः सती स्वभवने स्थिता । ईदृशी सा कथं राज्ञा पुनः शन्तनुना वृता
तस्यां पुत्रावुभौ जातौ तत्त्वं कथय सुव्रत । विस्तरेण महाभाग कथां परमपावनीम्
उत्पत्तिं वद व्यासस्य सत्यवत्यास्तथा पुनः । श्रोतुकामाः पुनः सर्वे ऋषयः संशितव्रताः
सूत उवाच प्रणम्य परमां शक्तिं चतुर्वर्गप्रदायिनीम् । आदिशक्तिं वदिष्यामि कथां पौराणिकीं शुभाम्
यस्योच्चारणमात्रेण सिद्धिर्भवति शाश्वती । व्याजेनापि हि बीजस्य वाग्भवस्य विशेषतः
सम्यक् सर्वात्मना सर्वैः सर्वकामार्थसिद्धये । स्मर्तव्या सर्वथा देवी वाञ्छितार्थप्रदायिनी
राजोपरिचरो नाम धार्मिकः सत्यसङ्गरः । चेदिदेशपतिः श्रीमान् बभूव द्विजपूजकः
तपसा तस्य तुष्टेन विमानं स्फाटिकं शुभम् । दत्तमिन्द्रेण तत्तस्मै सुन्दरं प्रियकाम्यया
तेनारूढस्तु सर्वत्र याति दिव्येन भूपतिः । न भूमावुपरिस्थोऽसौ तेनोपरिचरो वसुः
विख्यातः सर्वलोकेषु धर्मनित्यः स भूपतिः । तस्य भार्या वरारोहा गिरिका नाम सुन्दरी
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः । पृथग्देशेषु राजानः स्थापितास्तेन भूभुजा
वसोस्तु पत्नी गिरिका कामान् काले न्यवेदयत् । ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः
तदहः पितरश्चैनमूचुर्जहि मृगानिति । तच्छुत्वा चिन्तयामास भार्यामृतुमतीं तथा
पितृवाक्यं गुरुं मत्वा कर्तव्यमिति निश्चितम् । चचार मृगयां राजा गिरिकां मनसा स्मरन्
वने स्थितः स राजर्षिश्चित्ते सस्मार भामिनीम् । अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम्
तस्य रेतः प्रचस्कन्द स्मरतस्तां च कामिनीम् । वटपत्रे तु तद्राजा स्कन्नमात्रं समाक्षिपत्
इदं वृथा परिस्कन्नं रेतो वै न भवेत्कथम् । ऋतुकालं च विज्ञाय मतिं चक्रे नृपस्तदा
अमोघं सर्वथा वीर्यं मम चैतन्न संशयः । प्रियायै प्रेषयाम्येतदिति बुद्धिमकल्पयत्
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः । अभिमन्त्र्याथ तद्वीर्यं वटपर्णपुटे कृतम्
पार्श्वस्थं श्येनमाभाष्य राजोवाच द्विजं प्रति । गृहाणेदं महाभाग गच्छ शीघ्रं गृहं मम
मत्प्रियार्थमिदं सौम्य गृहीत्वा त्वं गृहं नय । गिरिकायै प्रयच्छाशु तस्यास्त्वार्तवमद्य वै
सूत उवाच इत्युक्त्वा प्रददौ पर्णं श्येनाय नृपसत्तमः । स गृहीत्वोत्पपाताशु गगनं गतिवित्तमः
गच्छन्तं गगनं श्येनं धृत्वा चञ्चुपुटे पुटम् । तमपश्यदथायान्तं खगं श्येनस्तथापरः
आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत्खगम् । तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः
युद्ध्यतोरपतद्रेतस्तज्जापि यमुनाम्भसि । खगौ तौ निर्गतौ कामं पुटके पतिते तदा
एतस्मिन्समये काचिद्अद्रिका नाम चाप्सराः । ब्राह्मणं समनुप्राप्तं सन्ध्यावन्दनतत्परम्
कुर्वन्ती जलकेलिं सा जले मग्ना चचार सा । जग्राह चरणं नारी द्विजस्य वरवर्णिनी
प्राणायामपरः सोऽथ दृष्ट्वा तां कामचारिणीम् । शशाप भव मत्स्यी त्वं ध्यानविघ्नकरी यतः
सा शप्ता विप्रमुख्येन बभूव यमुनाचरी । शफरी रूपसम्पन्ना ह्यद्रिका च वराप्सराः
श्येनपादपरिभ्रष्टं तच्छुक्रमथ वासवी । जग्राह तरसाभ्येत्य साद्रिका मत्स्यरूपिणी