नमस्ते पार्श्वयोः पृष्ठे नमस्ते पुरतोऽम्बिके । नम ऊर्ध्वं नमश्चाधः सर्वत्रैव नमो नमः
कृपां कुरु महादेवि मणिद्वीपाधिवासिनि । अनन्तकोटिब्रह्माण्डनायिके जगदम्बिके
जय देवि जगन्मातर्जय देवि परात्परे । जय श्रीभुवनेशानि जय सर्वोत्तमोत्तमे
कल्याणगुणरत्नानामाकरे भुवनेश्वरि । प्रसीद परमेशानि प्रसीद जगतोरणे
श्रीनारायण उवाच इति देववचः श्रुत्वा प्रगल्भं मधुरं वचः । उवाच जगदम्बा सा मत्तकोकिलभाषिणी
देव्युवाच प्रसन्नाहं सदा देवा वरदेशशिखामणिः । ब्रुवन्तु विबुधाः सर्वे यदेव स्याच्चिकीर्षितम्
देवीवाक्यं सुराः श्रुत्वा प्रोचुर्दुःखस्य कारणम् । दुष्टदैत्यस्य चरितं जगद्बाधाकरं परम्
देवब्राह्मणवेदानां हेलनं नाशनं तथा । स्थानभ्रंशं सुराणां च कथयामासुरादृताः
ब्रह्मणो वरदानं च यथावत्ते समूचिरे । श्रुत्वा देवमुखाद्वाणीं महाभगवती तदा
प्रेरयामास हस्तस्थान्भ्रमरान्भ्रामरी तदा । पार्श्वस्थानग्नभागस्थान्नानारूपधरांस्तथा
जनयामास बहुशो यैर्व्याप्तं भुवनत्रयम् । मटचीयूथवत्तेषां समुदायस्तु निर्गतः
तदान्तरिक्षं तैर्व्याप्तमन्धकारः क्षितावभूत् । दिवि पर्वतशृङ्गेषु द्रुमेषु विपिनेष्वपि
भ्रमरा एव सञ्जातास्तदद्भुतमिवाभवत् । ते सर्वे दैत्यवक्षांसि दारयामासुरुद्गताः
नरं मधुहरं यद्वन्मक्षिकाः कोपसंयुताः । उपायो न च शस्त्राणां तथास्त्राणां तदाभवत्
न युद्धं न च सम्भाषा केवलं मरणं खलु । यस्मिन्यस्मिन्स्थले ये ये स्थिता दैत्या यथा यथा
तत्रैव च तथा सर्वे मरणं प्रापुरुत्स्मयाः । परस्परं समाचारो न कस्याप्यभवत्तदा
क्षणमात्रेण ते सर्वे विनष्टा दैत्यपुङ्गवाः । कृत्वेत्थं भ्रमराः कार्यं देवीनिकटमाययुः
आश्चर्यमेतदाश्चर्यमिति लोकाः समूचिरे । किं चित्रं जगदम्बाया यस्या मायेयमीदृशी
ततो देवगणाः सर्वे ब्रह्मविष्णुपुरोगमाः । निमग्ना हर्षजलधौ पूजयामासुरम्बिकाम्
नानोपचारैर्विविधैर्नानोपायनपाणयः । जयशब्दं प्रकुर्वाणा मुमुचुः सुमनांसि च
दिवि दुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः । पेठुर्वेदान्मुनिश्रेष्ठा गन्धर्वाद्या जगुस्तथा
मृदङ्गमुरजावीणाढक्काडमरुनिःस्वनैः । घण्टाशङ्खनिनादैश्च व्याप्तमासीज्जगत्त्रयम्
नानास्तोत्रैस्तदा स्तुत्वा मूर्ध्न्याधायाज्जलींस्तथा । जय मातर्जयेशानीत्येवं सर्वे समूचिरे
ततस्तुष्टा महादेवी वरान्दत्त्वा पृथक्पृथक् । स्वस्मिंश्च विपुलां भक्तिं प्रार्थिता तैर्ददौ च ताम्
पश्यतामेव देवानामन्तर्धानं गता ततः । इति ते सर्वमाख्यातं भ्रामर्याश्चरितं महत्
पठतां शृण्वतां चैव सर्वपापप्रणाशनम् । श्रुतमाश्चर्यजनकं संसारार्णवतारकम्
एवं मनूनां सर्वेषां चरितं पापनाशनम् । देवीमाहात्म्यसंयुक्तं पठञ्शृण्वञ्शुभप्रदम्
यश्चैतत्पठते नित्यं शृणुयाद्योऽनिशं नरः । सर्वपापविनिर्मुक्तो देवीसायुज्यमाप्नुयात्
मस्त्यगन्धोत्पत्तिवर्णनम् ऋषय ऊचुः आश्चर्यकरमेतत्ते वचनं गर्भहेतुकम् । सन्देहोऽत्र समुत्पन्नः सर्वेषां नस्तपस्विनाम्
माता व्यासस्य मेधाविन्नाम्ना सत्यवतीति च । विवाहिता पुरा ज्ञाता राज्ञा शन्तनुना यथा