अस्माभिः परमेशानी सेव्यते ध्यानयोगतः । प्रसन्ना सा भगवती साहाय्यं ते करिष्यति
इत्यादिश्य गुरुं सर्वे जग्मुर्जाम्बूनदेश्वरीम् । सास्मान्दैत्यभयत्रस्तान् पालयिष्यति शोभना
तत्र गत्वा तपश्चर्यां चक्रुः सर्वे सुनिष्ठिताः । मायाबीजजपासक्ता देवीमखपरायणाः
बृहस्पतिस्तदा शीघ्रं जगामासुरसन्निधौ । आगतं मुनिवर्यं तं पप्रच्छाथ स दैत्यराट्
मुने कुत्रागमः कस्मात्किमर्थमिति मे वद । नाहं युष्मत्पक्षपाती प्रत्युतारातिरेव च
इति तस्य वचः श्रुत्वा प्रोवाच मुनिनायकः । अस्मत्सेव्या च या देवी सा त्वया पूज्यतेऽनिशम्
तस्मादस्मत्पक्षपाती न भवेस्त्वं कथं वद । इति तस्य वचः श्रुत्वा मोहितो देवमायया
तत्याज परमं मन्त्रमभिमानेन सत्तम । गायत्रीत्यागतो दैत्यो निस्तेजस्को बभूव ह
कृतकार्यो गुरुस्तस्मात्स्थानान्निर्गतवान्पुनः । ततो वृत्तान्तमखिलं कथयामास वज्रिणे
संतुष्टास्ते सुराः सर्वे भेजिरे परमेश्वरीम् । एवं बहुगते काले कस्मिंश्चित्समये मुने
प्रादुरासीज्जगन्माता जगन्मङ्गलकारिणी । कोटिसूर्यप्रतीकाशा कोटिकन्दर्पसुन्दरी
चित्रानुलेपना देवी चित्रवासोयुगान्विता । विचित्रमाल्याभरणा चित्रभ्रमरमुष्टिका
वराभयकरा शान्ता करुणामृतसागरा । नानाभ्रमरसंयुक्तपुष्पमालाविराजिता
भ्रामरीभिर्विचित्राभिरसंख्याभिः समावृता । भ्रमरैर्गायमानैश्च ह्रींकारमनुमन्वहम्
समन्ततः परिवृता कोटिकोटिभिरम्बिका । सर्वशृङ्गारवेषाढ्या सर्ववेदप्रशंसिता
सर्वात्मिका सर्वमयी सर्वमङ्गलरूपिणी । सर्वज्ञा सर्वजननी सर्वा सर्वेश्वरी शिवा
दृष्ट्वा तां तरलात्मानो देवा ब्रह्मपुरोगमाः । तुष्टुवुर्हृष्टमनसो विष्टरश्रवसां शिवाम्
देवा ऊचुः नमो देवि महाविद्ये सृष्टिस्थित्यन्तकारिणि । नमः कमलपत्राक्षि सर्वाधारे नमोऽस्तु ते
सविश्वतैजसप्राज्ञविराट्सूत्रात्मिके नमः । नमो व्याकृतरूपायै कूटस्थायै नमो नमः
दुर्गे सर्गादिरहिते दुष्टसंरोधनार्गले । निरर्गलप्रेमगम्ये भर्गे देवि नमोऽस्तु ते
नमः श्रीकालिके मातर्नमो नीलसरस्वति । उग्रतारे महोग्रे ते नित्यमेव नमो नमः
नमः पीताम्बरे देवि नमस्त्रिपुरसुन्दरि । नमो भैरवि मातङ्गि धूमावति नमो नमः
छिन्नमस्ते नमस्तेऽस्तु क्षीरसागरकन्यके । नमः शाकम्भरि शिवे नमस्ते रक्तदन्तिके
निशुम्भशुम्भदलनि रक्तबीजविनाशिनि । धूम्रलोचननिर्णाशे वृत्रासुरनिबर्हिणि
चण्डमुण्डप्रमथिनि दानवान्तकरे शिवे । नमस्ते विजये गङ्गे शारदे विकचानने
पृथ्वीरूपे दयारूपे तेजोरूपे नमो नमः । प्राणरूपे महारूपे भूतरूपे नमोऽस्तु ते
विश्वमूर्ते दयामूर्ते धर्ममूर्ते नमो नमः । देवमूर्ते ज्योतिमूर्ते ज्ञानमूर्ते नमोऽस्तु ते
गायत्रि वरदे देवि सावित्रि च सरस्वति । नमः स्वाहे स्वधे मातर्दक्षिणे ते नमो नमः
नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः । सर्वप्रत्यक्स्वरूपां तां भजामः परदेवताम्
भ्रमरैर्वेष्टिता यस्माद् भ्रामरी या ततः स्मृता । तस्यै देव्यै नमो नित्यं नित्यमेव नमो नमः