नवाह यज्ञे सम्पूर्णे परीक्षिदपि भूपतिः । दिव्यरूपधरो देव्याः सालोक्यं तत्क्षणादगात्
पितुर्दिव्यां गति राजा विलोक्य जनमेजयः । व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह
अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् । देवीभागवतं नाम धर्मकामार्थमोक्षदम्
ये शृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् । तेषां सिद्धिर्न दूरस्था तस्मात्सेव्या सदा नृभिः
दिनमर्द्धं तदर्धं वा मुहूर्तं क्षणमेव वा । ये शृण्वन्ति नरा भक्त्या न तेषां दुर्गतिः क्वचित् ॥ सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत्फलम् । सकृत्पुराणश्रवणात्तत्फलं लभते नरः
कृता दो बहवो धर्माः कलौ धर्मस्तु केवलम् । पुराणश्रवणादन्यो विद्यते नापरो नृणाम्
धर्माचारविहीनानां कलावल्पायुषां नृणाम् । व्यासो हिताय विदधे पुराणाख्यं सुधारसम्
सुधां पिबन्नेक एव नरः स्यादजरामरः । देव्याः कथामृतं कुर्यात्कुलमेवाजरामरम्
मासानां नियमो नात्र दिनानां नियमोऽपि न । सदा सेव्यं सदा सेव्यं देवीभागवतं नरैः
आश्विने मधुमासे वा तपोमासे शुचौ तथा । चतुर्षु नवरात्रेषु विशेषात्फलदायकम्
अतो नवाहयज्ञोऽयं सर्वस्मात्पुण्यकर्मणः । फलाधिकप्रदानेन प्रोक्तः पुण्यप्रदो नृणाम्
ये दुर्हृदः पापरता विमूढा मित्रद्रुहो वेदविनिंदकाश्च । हिंसारता नास्तिकमार्गसक्ता नवाहयज्ञेन पुनंति ते कलौ
परस्वदाराहणेतिऽलुब्धा ये वै नराः कल्मषभारभाजः । गोदेवता ब्राह्मणभक्तिहीना नवाहज्ञेन भवन्ति शुद्धाः
तपोभिरुग्रैर्व्रततीर्थसेवनैर्दानैरनेकैर्नियमैर्मखैश्च । हुतैर्जपैर्यच्च फलेन लभ्यते नवाहयज्ञेन तदाप्यते नृणाम्
तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम् । पुनाति सद्यो बदरीवनं नो यथा हि देवीमख एष विप्राः
अतो भागवतं देव्याः पुराणं परतः परम् । धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम्
आश्विनस्य सिते पक्षे कन्याराशिगते रवौ । महाष्टम्यां समभ्यर्च्य हैकसिंहासनस्थितम्
देवीप्रीतिपदं भक्त्या श्रीभागवतपुस्तकम् । दद्याद्विप्राय योग्याय स देव्याः पदवीं लभेत्
देवी भागवतस्यापि श्लोकं श्लोकार्द्धमेव वा । भक्त्या यश्च पठेन्नित्यं स देव्याः प्रीतिभाग्भवेत् ॥ उपसर्गभवं घोरं महामारीसमुद्भवम् । उत्पातानखिलांश्चापि हंति श्रवणमात्रतः
बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् । देवीभागवतस्यास्य श्रवणाद्याति दूरतः
यस्तु भागवतं देव्याः पठेद्भक्त्या शृणोति वा । धर्ममर्थं च कामं च मोक्षं च लभते नरः
श्रवणाद्वसुदेवोऽस्य प्रसेनान्वेषणे गतम् । चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद ह
य एतां शृणुयाद्भक्त्या श्रीमद्भागवतीं कथाम् । भुक्तिं मुक्तिं स लभते भक्त्या यश्च पठेदिमाम् ॥ अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् । रोगी रोगात्प्रमुच्येत श्रुत्वा भागवतामृतम्
वंध्या वा काकवंध्या वा मृतवत्सा च याङ्गना । देवीभागवतं श्रुत्वा लभेत्पुत्रं चिरायुषम्
पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् । तद्गृहं तीर्थंभूतं हि वसतां पापनाशकम्
अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुतः । यः पठेच्छृणुयाद्वापि स सिद्धिं लभते पराम्
पठन्द्विजो वेदविदग्रणीर्भवेद्वाहुप्रजातो धरणीपतिः स्यात् । वैश्यः पठन्वित्तसमृद्धिमेति शूद्रोऽपि शृण्वन्स्वकृतोत्तमः स्यात्
अथ द्वितीयोऽध्यायः ऋषय ऊचुः। वसुदेवो महाभागः कथं पुत्रमवाप्तवान् । प्रसेनः कुत्र कृष्णेन भ्रमताऽन्वेषितः कथम्
विधिना केन कस्माच्च देवीभागवतं श्रुतम् । वसुदेवेन सुमते वद सूत कथामिमाम्
सूत उवाच। सत्राजिद्भोजवंशीयो द्वारवत्यां सुखं वसन् । सूर्यस्याराधने युक्तो भक्तश्च परमः सखा