वरं वव्रे स्वबुद्धिस्थं मा भवेन्मृत्युरित्यपि । श्रुत्वारुणवचो ब्रह्मा बोधयामास सादरम्
ब्रह्मविष्णुमहेशाद्या मृत्युना कवलीकृताः । तदान्येषां तु का वार्ता मरणे दानवोत्तम
वरं योग्यं ततो ब्रूहि दातुं यः शक्यते मया । नात्राग्रहं प्रकुर्वन्ति बुद्धिमन्तो जनाः क्वचित्
इति ब्रह्मवचः श्रुत्वा पुनः प्रोवाच सादरम् । न युद्धे न च शस्त्रास्त्रान्न पुंभ्यो नापि योषितः
द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतस्तथा । भवेन्मे मृत्युरित्येवं देव देहि वरं प्रभो
बलं च विपुलं देहि येन देवजयो भवेत् । इति तस्य वचः श्रुत्वा तथास्त्विति वचोऽब्रवीत्
दत्त्वा वरं जगामाशु पद्मजः स्वं निकेतनम् । ततोऽरुणाख्यो दैत्यस्तु पातालात्स्वाश्रयस्थितान्
दैत्यानाकारयामास ब्रह्मणो वरदर्पितः । आगत्य तेऽसुराः सर्वे दैत्येशं तं प्रचक्रिरे
दूतं च प्रेषयामासुर्युद्धार्थममरावतीम् । दूतवाक्यं तदा श्रुत्वा देवराड् भयकम्पितः
देवैः सार्धं जगामाशु ब्रह्मणः सदनं प्रति । ब्रह्मविष्णू पुरस्कृत्य जग्मुस्ते शङ्करालयम्
विचारं चक्रिरे तत्र वधार्थं ते सुरद्रुहाम् । एतस्मिन्समये तत्र दैत्यसेनासमावृतः
अरुणाख्यो दैत्यराजो जगामाशु त्रिविष्टपम् । सूर्येन्दुयमवह्नीनामधिकारान्पृथक्पृथक्
स्वयं चकार तपसा नानारूपधरो मुने । स्वस्वस्थानच्युताः सर्वे जग्मुः कैलासमण्डलम्
शशंसुः शङ्करं देवाः स्वस्वदुःखं पृथक्पृथक् । महान् विचारस्तत्रासीत्किं कर्तव्यमतः परम्
न युद्धेन च शस्त्रास्त्रैर्न पुंभ्यो नापि योषितः । द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतोऽपि वा
मृत्युर्भवेदिति ब्रह्मा प्रोवाच वचनं यतः । इति चिन्तातुराः सर्वे कर्तुं किञ्चिन्न च क्षमाः
एतस्मिन्समये तत्र वागभूदशरीरिणी । भजध्वं भुवनेशानीं सा वः कार्यं विधास्यति
गायत्रीजपसंसक्तो दैत्यराड् यदि तां त्यजेत् । मृत्युयोग्यस्तदा भूयादित्युच्चैस्तोषकारिणी
श्रुत्वा दैवीं तथा वाणीं मन्त्रयामासुरादृताः । बृहस्पतिं समाहूय वचनं प्राह देवराट्
गुरो गच्छ सुराणां तु कार्यार्थमसुरं प्रति । यथा भवेच्च गायत्रीत्यागस्तस्य तथा कुरु
अस्माभिः परमेशानी सेव्यते ध्यानयोगतः । प्रसन्ना सा भगवती साहाय्यं ते करिष्यति
इत्यादिश्य गुरुं सर्वे जग्मुर्जाम्बूनदेश्वरीम् । सास्मान्दैत्यभयत्रस्तान् पालयिष्यति शोभना
तत्र गत्वा तपश्चर्यां चक्रुः सर्वे सुनिष्ठिताः । मायाबीजजपासक्ता देवीमखपरायणाः
बृहस्पतिस्तदा शीघ्रं जगामासुरसन्निधौ । आगतं मुनिवर्यं तं पप्रच्छाथ स दैत्यराट्
मुने कुत्रागमः कस्मात्किमर्थमिति मे वद । नाहं युष्मत्पक्षपाती प्रत्युतारातिरेव च
इति तस्य वचः श्रुत्वा प्रोवाच मुनिनायकः । अस्मत्सेव्या च या देवी सा त्वया पूज्यतेऽनिशम्
तस्मादस्मत्पक्षपाती न भवेस्त्वं कथं वद । इति तस्य वचः श्रुत्वा मोहितो देवमायया
तत्याज परमं मन्त्रमभिमानेन सत्तम । गायत्रीत्यागतो दैत्यो निस्तेजस्को बभूव ह
कृतकार्यो गुरुस्तस्मात्स्थानान्निर्गतवान्पुनः । ततो वृत्तान्तमखिलं कथयामास वज्रिणे
संतुष्टास्ते सुराः सर्वे भेजिरे परमेश्वरीम् । एवं बहुगते काले कस्मिंश्चित्समये मुने